________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्वासेनैकेन केचित्परिणतपवना मासमेकेऽप्यथैके वर्षार्धं वर्षमन्ये क्षणमिव यमिनोऽभ्यासलेशान्नयन्ति। तस्मादभ्यासवश्य: पवनजयलयस्तेन चेत:स्थिरत्वं तस्योपायेऽनपायो गुरुपदपदवीसेवनं कारणं स्यात् ॥५२ ।। प्राणायामादिकर्मक्षपितदिननिशं निद्रया दूरमुक्तं शब्दादिभ्योऽवधूतश्रवसुखकरणग्रामसिद्धावबोधम् । वेदान्ताद्वैतवादश्रवणमननतो लोनमिथ्यावभासं पुंरत्नं यत्नसाध्या स्वयमिह वृणुते निर्मलाद्वैतसिद्धिः ॥५३॥ कार्पण्योत्पत्तिभूमिर्गुरुसुतसुहृदां वञ्चिकापण्ययोषिद्वाग्देवी दैन्यवाचां पररसमधुरस्वादलोलाग्रजिह्वा । चौर्यद्यूतद्रुबीजं नय पथि कतमो विभ्रमाम्बुप्रपात: शीलापस्माररोगे विधिरकरुण का सिद्धये केह तृष्णा ॥५४॥ रम्भाहासोपहासस्त्रिदशपतिशचीसख्यसौख्यं च मुख्यं पुण्यच्छेदे प्रमाणं तपति च रविता चन्द्रता जाड्यभूमिः । ताभ्यां येऽन्यक्रियेरन्गगनचरगणाः सन्तु ते चेति गोष्ठी शिष्टानां यत्र तस्यामुपचितमतयः कर्मणा किं विदध्मः ॥५५ ॥ शीतांशूष्णीषमध्ये हरिणमिषमिलल्लीलवास: शिरस्त्रे जातः कालो जरावांश्चिरसमयपुमान्विश्वकर्मैकसाक्षी । आकाशश्मश्रुमध्ये पलितकवलितं भास्वता साधकेन छिनं सज्जायमानं प्रसरति परितो रोमतारागणश्री: ॥५६॥ अह्रि श्रान्तः समन्ताज्जनिमृतिगणितैर्जागरिष्यन्निशायां प्रात: प्रारभ्यमौनव्रतगमितदिनान्भिक्षयन्घुकबन्धून् । सायं शेते कृतान्तो दिनकरशशभृल्लोचने मीलयित्वा मौनव्याजेन विप्रा मुषितविधिममुं निन्दयन्ति स्वयं तम् ॥ ५७ ।।
६१
For Private And Personal Use Only