SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्षुत्क्षामः किल कोऽपि रङ्कशिशुकः प्रव्रज्य चैत्ये क्वचित्, कृत्वा कञ्चन पक्षमक्षतकलिः प्राप्तस्तदाचार्यकम् । चित्रं चैत्यगृहे गृहीयति निजे गच्छे कुटुम्बीयति, स्वं शक्रीयति बालिशीयति बुधान् विश्वं वराकीयति ॥१५॥ यैर्जातो न च वर्द्धितो न च न च क्रीतोऽधमर्णो न च, प्राग्दृष्टो न च बान्धवो न च न च प्रेयाण्ण च प्रीणितः । तैरेवात्यधमाधमैः कृतमुनिव्याजैर्बलाद्वाह्यते, नस्योऽतः पशुवज्जनोयमनिशं नीराजकं हा !! जगत् ॥१६ ॥ कि दिङ्मोहमिताः किमन्धबधिराः किं योगचूर्णीकृताः, किं दैवोपहताः किमङ्ग ! ठगिताः किं वा ग्रहावेशिताः । कृत्वा मूर्जि पदं श्रुतस्य यदमी दृष्टोरुदोषा अपि, व्यावृत्ति कुपथाज्जडा न दधतेऽसूयन्ति चैतत्कृते ॥ १७॥ इष्टावाप्ति तुष्ट-विट-नट-भट-चेटक-पेटकाकुलं, निधुवनविधिनिबद्धदोहदनरनारीनिकरसकुलम् । राग-द्वेष - मत्सरेणूंघनमघपङ्केऽथ निमज्जनं, जनयत्येव मूढजनविहितमविधिना जैनमज्जनम् जिनमतविमुखविहितमहिताय न मज्जनमेव केवलं, किन्तु तपश्चरित्रदानाद्यपि जनयति न खलु शिवफलम् । अविधिविधिकमाज्जिनाज्ञापि ह्यशुभशुभाय जायते, किं पुनरिति विडम्बनैवाहित-हेतुर्न प्रतायते जिनगृह-जिनबिम्बं जिनपूजन - जिनयात्रादिविधिकृतं , दान-तपोव्रतादि गुरुभक्तिश्रुतपठनादि चादृतम् । स्यादिह कुमत-कुगुरु-कुग्राह-कुबोध कुदेशनांशतः, स्फुटमनभिमतकारि वरभोजनमिव विषलवनिवेशतः ॥ २० ॥ ।। १८ ॥ ॥ १९ ॥ 306 For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy