________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। २४८ ॥
॥ २४९ ॥
|| २५० ॥
॥ २५१ ॥
॥ २५२॥
|| २५३ ॥
बाधा सम्भाव्यतेऽत्रार्थे वेदे सा केन वार्यते। यद्वा लोकविरुद्धपि प्रामाण्यं कथमिष्यते धारणाध्ययनेत्यादि नाक्रोशः फलवानिह । अज्ञैरज्ञाततत्त्वोपि पण्डितैरवसीयते तस्मादतीन्द्रियार्थेषु सर्वज्ञगदितागमः । मानमभ्युपगन्तव्यो न वेदस्तात्त्विको यतः सर्वज्ञे सति तद्वाक्यं प्रमाणत्वं प्रयास्यति तत्सत्तासाधनं मानं नाध्यक्षादीह किञ्चन सदुपलम्भकमानस्य गोचरो नेह सर्ववित् । अभावसाधको भावः सा सत्ता तस्य दुर्लभा चक्षुरादिधियो ग्राह्या परसंविनेष्यते यत् । अनुमानं च तत्पूर्वं तदभावेन वर्तते अन्योन्याश्रयदोषो वा तत्पूर्वत्वेऽनवस्थितिः । आगमोपि न तद्गीतस्तं विना सिद्धिमृच्छति न चापरं परिष्टं प्रमाणं न ततो गतिः । तत्कथं तद्वचो मानं सम्भवत्यनघं ननु धर्मज्ञत्वनिषेधश्च केवलोऽत्रोपयुज्यते । सर्वमन्यद्विजानानः पुरुषः केन वार्यते समस्तावयवव्यक्तिविस्तरे ज्ञानसाधनम् । काकदन्तपरीक्षावत् क्रियमाणमनर्थकम् एकस्यापि शरीरस्य यावन्तः परमाणवः । केशरोमाणि यावन्ति कस्तान्विज्ञातुमर्हति साक्षात्प्रत्यक्षदर्शित्वाद्यस्याशुचिरसादयः। स्वसंवेद्याः प्रसज्यन्ते को नु तं कल्पयिष्यति
॥ २५४ ॥
॥ २५५ ॥
॥ २५६ ॥
॥ २५७॥
॥ २५८ ॥
॥ २५९ ॥
359
For Private And Personal Use Only