________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २२४ ॥
॥ २२५ ॥
।। २२६ ॥
॥ २२७ ॥
।। २२८ ॥
।। २२९ ॥
संवादाद्धेतुशुद्धेर्वा ज्ञानं बाधविवर्जितम् । तत्रानवस्थितौ यद्वः समाधानं तदेव नः तस्माद्वक्तृगुणाधीनं शब्दे प्रामाण्यमिष्यताम् । वेदे कर्तुरभावश्च नि:प्रमाणः कथं स वः सर्वादृष्टिस्तवासिद्धा स्वादृष्टिय॑भिचारिणी। विपक्षवृत्ति कालत्वं तदभावं न साधयेत् आनुपूर्वी नराधीना भारतादौ विनिश्चिता । कालात्ययापदिष्टं तदशेषं तत्र साधनम् याज्ञवल्क्य इहोवाच वेदवाक्यश्रुतेरपि । नाकर्तृकत्वमेतस्य खाण्डिकीयविधानतः क्रियाप्रज्ञादयोप्येते गुणा: सत्यत्वहेतवः । पुंसि धर्मिणि वर्तन्ते तदभावे सत्यता कथम् वितथार्थाभिधायी च नित्यत्वान्नेति का प्रमा। वायुर्गन्ता स्थिरा भूमिरमूर्तं चाम्बरं तथा दोषाभावेपि वेदस्य नैव सत्यार्थता कुतः । अनर्थकत्वमप्यस्ति यस्मात्पक्षान्तरं परम् नित्यं ज्ञानप्रसूतिश्च नित्यं वेदे व्यवस्थिते । सहकारिव्यपेक्षापि न नित्ये युक्तिसङ्गता सङ्केताधीन एवायमर्थमाह ध्वनिर्यतः । सङ्केतपौरुषेयत्वे दोषस्तत्रापि तादृशः नित्यसम्बन्धसद्भावे व्याख्यादीनामसम्भवः । आगमो वर्णनित्यत्वे सर्वो नित्यः प्रसज्यते आनुपूर्वी यदा नित्या नियता स्यादथाखिला। नाखिला सर्वशास्त्राणां प्रमाणत्वप्रसङ्गतः
।। २३०॥
॥ २३१ ॥
।। २३२ ॥
।। २३३ ॥
।। २३४ ।।
।। २३५ ।।
35४
For Private And Personal Use Only