________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १६३ ॥
।। १६४॥
॥ १६५ ॥
॥१६६ ।।
॥ १६७॥
॥ १६८ ॥
निरुन्ध्याच्चित्तदुर्ध्यानं, निरन्ध्यादयतं वचः । निरुन्ध्यात् कायचापल्यं तत्त्वतल्लीनमानसः दिनातिवाहिकां कष्टयं दृष्ट्वा बन्धादिदुःखिनाम् । रुद्धमेकान्तमौनाभ्यां तपंश्चित्तं स्थिरीकुरु मुनिना मसृणं शान्तं, प्राञ्जलं मधुरं मृदु । वदता तापलेशोऽपि त्याज्य: स्वस्य परस्य च कोमलाऽपि सुसाम्यापि वाणी भवति कर्कशा। अप्राञ्जलास्फुटत्यर्थं विदग्धा चर्विताक्षरा औचित्यं ये विजानन्ति सर्वकार्येषु सिद्धिदम् । सर्वप्रियंकरा ये च ते नरा विरला जने औचित्यं परमो बन्धुरौचित्यं परमं सुखम् । धर्मादिमूलमौचित्यमौचित्यं जनमान्यता कर्मबन्धदृढश्लेषं सर्वस्याप्रीतिकं सदा धर्मार्थिना न कर्त्तव्यं वीरेण जटिनि यथा बीजभूतं सुधर्मस्य सदाचारप्रवर्तनम् । सदाचारं विना स्वैरिण्युपवासनिभो हि सः मूर्तो धर्मः सदाचारः सदाचारोऽक्षयो निधिः । दृढं धैर्यं सदाचारः सदाचारः परं यशः लोभमुन्मूलयन्मूलादप्रमत्तो मुनिः सदा । क्षायोपशमिके भावे स्थितोऽनुत्सुकतां व्रजेत् संसारसरणिर्लोभो लोभ: शिवपथाचलः । सर्वदुःखखनिर्लोभो लोभो व्यसनमन्दिरम् शोकादीनां महाकन्दो लोभः क्रोधानलानिलः । मायावल्लिसुधाकुल्या मानमत्तेभवारुणी
।। १६९ ।।
॥ १७० ॥
॥ १७१ ॥
॥ १७२ ॥
॥ १७३ ॥
।। १७४॥
3२१
For Private And Personal Use Only