________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ३२॥
॥ ३३ ॥
॥ ३४ ॥
॥ ३५ ॥
॥ ३७॥
प्रदीप्ते भवने यद्वत्, शेषं मुक्त्वा गृही सुधीः । गृह्णात्येकं महारत्नं, आपनिस्तारणक्षमम् आकालिक-रणोत्पाते, यथा कोऽपि महाभटः । अमोघमस्त्रमादत्ते, सारं दम्भोलिदण्डवत् एवं नाशक्षणे सर्व-श्रुतस्कन्धस्य चिन्तने । प्रायेण न क्षमो जीवः, तस्मात्तद्गतमानस: द्वादशाङ्गोपनिषदं, परमेष्ठिनमस्कृतिम् । धीरधीः सल्लसल्लेश्यः, कोऽपि स्मरति सात्त्विक: समुद्रादिव पीयूषं, चन्दनं मलयादिव। नवनीतं यथा दनो, वजं वा रोहणादिव आगमादुद्धृतं सर्व-सारं कल्याणसेवधिम् । परमेष्ठिनमस्कारं, धन्याः केचिदुपासते संविग्नमानसाः स्पष्ट-गम्भीरमधुरस्वराः । योगमुद्राधरकराः, शुचयः कमलासनाः उच्चरेयुः स्वयं सम्यक्, पूर्णां पञ्चनमस्कृतिम् । उत्सर्गतो विधिरयं, ग्लान्याऽत्रैते न चेत्क्षमाः असिआउसेति मन्त्रं, तत्रामाद्याक्षराङ्कितम् । स्मरन्तो जन्तवोऽनन्ताः, मुच्यन्तेऽन्तकबन्धनात् अर्हदरूपाऽऽचार्योपा-ध्यायमुन्यादिमाक्षरैः । सन्धिप्रयोगसंश्लिष्टैः, ॐकारं वा विदुर्जिनाः व्यक्ता मुक्तात्मनां मुक्तिः, मोहस्तम्बेरमाङ्कुश: प्रणीतः प्रणवः प्राज्ञैः भवार्त्तिच्छेदकर्तरी ओमिति ध्यायतां तत्त्वं, स्वर्गार्गलककुञ्चिकाम् । जीविते मरणे वापि, भुक्तिर्मुक्तिर्महात्मनाम्
॥ ३८ ॥
।। ३९ ॥
।। ४० ॥
।। ४१ ॥
॥ ४२ ॥
॥४३॥
૨૮૯
For Private And Personal Use Only