________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १८ ॥
॥ १९ ॥
॥ २० ॥
॥ २१ ॥
॥ २२ ॥
हन्तात्मकर्मणो/जा-ऽङ्कुरवत् कुक्कुटाण्डवत् । मिथः संहतयोः पूर्वा-पर्यं नास्त्येव सर्वथा तायिनः कर्मपाशेभ्यः, तारका मज्जतां भवे। तात्त्विकानामधीशा ये, तान् जिनान् प्रणिध्महे 'णं'-कारोऽयं दिशत्येवं, त्रिरेखः शून्यचूलिकः । तत्त्वत्रयपवित्रात्मा, लभते पदमव्ययम् सशिरस्त्रिसरलरेखं, खचूलमित्यक्षरं सदा ब्रूते । भवति त्रिशुद्धिसरलः, त्रिभुवनमुकुटस्त्रिकालेऽपि सप्तक्षेत्रीव सफला, सप्तक्षेत्रीव शाश्वती। सप्ताक्षरीयं प्रथमा, सप्त हन्तु भयानि मे
द्वितीयः प्रकाशः। न जातिर्न मृतिस्तत्र, न भयं न पराभवः । न जातु क्लेशलेशोऽपि, यत्र सिद्धाः प्रतिष्ठिताः मोचास्तम्भ इवासारः, संसार: क्वैष सर्वथा । क्व च लोकाग्रगं लोके, सारत्वात्सिद्धवैभवम् ? सितधर्माः सितलेश्याः, सितध्याना: सिताश्रयाः । सितश्लोकाश्च ये लोके, सिद्धास्ते सन्तु सिद्धये सतां स्वर्मोक्षयोर्दाने, धाने दुर्गतिपाततः । मन्येऽहं युगपच्छक्ति, सिद्धानां द्धेतिवर्णतः 'द्धा'वर्णे सिद्धशब्देऽत्र, संयोगो वर्णयोर्दधोः । सकर्णोऽयं सकर्णानां, फलं वक्तीव योगजम् परस्परं कोऽपि योगः, क्रियाज्ञानविशेषयोः । स्त्रीपुंसयोरिवानन्दं, प्रसूते परमात्मजम्
॥१॥
॥ २
॥
॥३॥
॥४
॥
૨૧૯
For Private And Personal Use Only