________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १२६ ॥
॥१२७ ॥
॥१२८ ।।
॥१२९ ।।
पूर्वापरविरुद्धानि, हिंसादेः कारकाणि च। वचांसि चित्ररूपाणि, व्याकुर्वद्भिनिजेच्छया कुतीथिकैः प्रणीतस्य, सद्गतिप्रतिपन्थिनः । धर्मस्य सकलस्यापि, कथं स्वाख्यातता भवेत् ? यच्च तत्समये क्वापि, दयासत्यादिपोषणम् । दृश्यते तद्वचोमात्रं, बुधैर्जेयं न तत्त्वतः यत्प्रोद्दाममदान्धसिन्धुरघटं साम्राज्यमासाद्यते, यन्निःशेषजनप्रमोदजनकं सम्पद्यते वैभवम् । यत्पूर्णेन्दुसमद्युतिर्गुणगणः सम्प्राप्यते यत्परं, सौभाग्यं च विजृम्भते तदखिलं धर्मस्य लीलायितम् यन्न प्लावयति क्षितिं जलनिधिः कल्लोलमालाकुलो, यत्पृथ्वीमखिलां धिनोति सलिलासारेण धाराधरः । यच्चन्द्रोष्णरुची जगत्युदयतः सर्वान्धकारच्छिदे, तन्निःशेषमपि ध्रुवं विजयते धर्मस्य विस्फूर्जितम् अबन्धूनां बन्धुः सुहृदसुहृदां सम्यगगदो, गदार्त्तिक्लान्तानां धनमधनभावार्तमनसाम् । अनाथानां नाथो गुणविरहितानां गुणनिधिः, जयत्येको धर्मः परमिह हितवातजनकः अर्हता कथितो धर्मः, सत्योऽयमिति भावयन् । सर्वसम्पत्करे धर्मे, धीमान् दृढतरो भवेत् एकामप्यमलामिमासु सततं यो भावयेद्भावनां, भव्यः सोऽपि निहन्त्यशेषकलुषं दत्तासुखं देहिनाम् । यत्स्वभ्यस्तसमस्तजैनसमयस्ता द्वादशाप्यादरादभ्यस्येल्लभते स सौख्यमतुलं किं तत्र कौतूहलम् ?
॥ १३०॥
॥ १३१ ॥
।। १३२ ।।
॥ १३३ ॥
૨૬s
For Private And Personal Use Only