________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ८० ॥
विपरीतो रतिपतिर्येन स्त्री पुरुषायते । अध:कृतोऽपि पुरुषः सन्महाप्रमदायते रतातिरेके निजहारवल्ली धमिल्लमुक्ता कुसुमैः क्षरद्भिः । यं प्रेयसी पूजयतेति गौरी शिवं तमन्यं व (वः/वा) विं ब्रवीमि।। ८१ कान्ताकुचस्थमकरीरचनाङ्कितोरास्तद्दन्तदंशनयनाञ्जनमञ्जुलोष्ठ: । तज्जाग्रदग्रकरजां च न रोचमानः स्वं वीक्षतेऽत्र मुकुरे सुकृती दिनादौ
॥ ८२ ॥ चिकुरा: कामकोदण्डगुणाः कृशतनोस्ततः । रते पुष्पाणि तद्बाणाः पतन्ति दयितोरसि
॥ ८३॥ ताम्बुलरागारुणनेत्रवा पृष्ठा स्फुरत्कङ्कणलक्षणश्रीः । मुक्तावलीलाञ्छनलक्ष्यवक्षाः पतिः प्रियां लज्जयते सरवीषु।। ८४ ॥ नासत्यता कितव तेऽभिनवा विभाति यन्मानुषीमपि रसेन चिकित्ससीति । गीर्वाण एव यदसि प्रति मां ब्रुवाणास्त्वां सुराधिकगिरं प्रति किं ब्रवीमि
।। ८५ ॥ वसति सका भवदन्तर्हदयं निर्भिद्य माय निर्यातु । समहिमकुचकटिचक्रां मामयि चित्ते कथं कुरुषे ॥८६॥ यदभिदधासि भवत्या हृदयं मे बद्धमित्यहो न मृषा। अथ तन्मया विमुक्तं यातु यतो रोचते ततो रमताम् सखित्वादास्येन्दु वचोमृतानि कि मां पिबन्ती न सहेत निद्रा। त्वया तमिस्रामखिलमपीयं यदद्य भर्तुर्नयनानिषिद्धा ॥८८ ॥ आयाति वारिरुहगन्धवहे समीरे तारस्वरेण सखि कूजति ताम्रचूडे।
॥८७॥
૨fo
For Private And Personal Use Only