________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्यापि नो कुरुबक: कुरुते विकाशमाशङ्कयतेऽत्र समये तरवोऽप्यसत्याः । तन्नानृतं कुरुबक वृतमद्भुतं चेत्पश्याधुना कितव किं तव दर्शनं न
॥ ५४॥ प्रतिनिधिर्भवतो दयितो मयाऽनुजगृहे न पदोपनिषन्निति। यदि मयि स्मरसि स्मरवैरितां तदव मित्र ! कलत्रधियापि माम् यस्ते श्रियं तनुरचाहरति स्म मार तत्प्रेयसी सदहमित्यपहंसि चेन्माम् । पादावधि प्रणमिते पि मयाद्यतस्मिकर्णोत्पलेन निहितेन हितेहितं किम् आस्ते भालतले ललामरचना नेन्दोः कलां कामये हारो वक्षसि नोज्वलश्च भुजगः पाण्डुत्वमङ्गेषु च । पश्यैतद्विरहोद्भवं नभसि तं कण्ठे च कस्तूरिका तन्नेतद्गरलं तदुग्रमतित: कस्मात्प्रहर्ता मयि
॥ ५७॥ भवति भवति भूयः पुष्पबाणैः प्रयासो मदन मदनपायं त्वन्मनो नोत्सहेत। अशनिमशनिपणि याहि याचस्व यन्मे हृदयमदयशश्वत्कर्कशं शैलतोऽपि अत्रिलोचनभवस्त्रिनेत्रभूः कीर्तितोऽपि विबुधो जडात्मकः । तद्वदेष सखि शीतदीधितिनिर्दहन्निह न मां विरुध्यते ॥५९॥ कन्दर्पदर्पपरिमुक्तशिलीमुखालीव्यालीढया वनितया स्वमीशम । श्रीनन्दने मधुसुधाकरचन्दनेषु किं नाम वामवचनं परिचीय तेन
॥ ५८॥
॥६० ॥
૨૧૪
For Private And Personal Use Only