________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|| ३६ ॥
इति नये करुणामरुणानने ! चरणयोररुणं तव यावकम् । उदयशैलतटेषु शनैः शनैररुणसारथिरेति तथा कुरु कान्तस्तेऽयमुपस्थितः सुनयने ! सत्यं सुखान्तोऽद्य मे युक्तस्ते पतितापहार इह किं तादृग्न याति स्वयम् । यागान्माधव एष ते शुचिपदं ग्रीष्मे वसन्तः कुतो यद्देवं सखि ! वां तदन्तरपथे मुग्धैव यातास्म्यहम् यस्मिन्पुरः प्रणयिनि प्रणते नताङ्गि ! किं साहसं वहसि दुर्वहभारमारात् ।
॥ ३७॥
.........
॥ ३८॥ प्रसादितायाः प्रणयेन चाटु पटीयसालिङ्गनमिष्टमेव। स्वयंग्रहाश्लेषसुखानि तस्याः कस्याप्यवश्यं स्वरिहानयन्ति ॥ ३९ ॥ पिकेन कामाद्वयमादिशन्ती द्विजेन गीतोपनिषेविनासा। वियोगिता रागभृतेषु हृत्सु हृदामिदानीं कुरुते श्रुतिस्था ॥४०॥ चन्दनोपचितसौरभ: शुभ्रः शीतलो जलधिकेलिभिः शनैः। दक्षिणः क्षणमुपैतु मे मुदे वल्लभः सखि ! न नेति मारुतः ॥४१॥ पूर्णः कलाकलापेन यापयंस्तापसम्पदम् । तनोतु नयनानन्दं कान्तः किं सखि ! नो शशी ॥४२॥ रसालकुसुमामोदा वासिताशां वरे मधौ । आलिङ्गामि निमग्नास्मि वरमानन्दवारिधौ यैरेव शम्बररिपोरपिरोपपुरैगैरीगिरीशयुगलं गतमेकभावम् । तैः पञ्चता विरहिणमधुना मधौ तु जीयादयं जगति पञ्चशरप्रपञ्चः ४४ ॥ चन्दनानां च सर्पाणां गुणौ मलयमारुते । पतियुक्ता वियुक्ताश्च विभज्याददतेऽङ्गनाः
॥ ४५ ॥
॥४३॥
૨૧૨
For Private And Personal Use Only