________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥
७
॥
जगन्ति जेतुश्च जयन्त्यमोघमस्त्रं स्त्रियः स्त्रीकृतशूलपाणेः । अर्धेन शृङ्गाररसप्रणीतब्रह्मैकतानोपमितेः स्मरस्य ॥३॥ कवयो नवयोजनाविद: कति सन्तीह च भूतलेऽखिले । रसिकोरसि कोऽपि कोविदः कुरुते चारुचमत्कृति कृती ॥४॥ विलासहासेक्षणभूषणानि क्रीडापरीरम्भणभाषणानि । तान्येव तासामसितभ्रुवां किं न स्युर्नवीनानि गिरा कवीनाम् ॥ ५ ॥ सदारम्भासमान श्रीरालिङ्गया श्रीफलस्तनी। यतो रम्भापरीरम्भाः संभाव्यन्ते मुदे दिवि
॥ ६॥ सारङ्गनयनासारं संसार के न जानन्ति। यत्सेवयाऽधिगम्येत ब्रह्मानन्दाद्वयोदयम् विश्वं यस्य वशंवदं त्रिभुवनोत्संसर्पिदोन्नतेः कन्दर्पस्य विलोललोचनचलप्रान्तप्रवृत्तिः स्मरः । यस्याः सोऽपि कलाविलासविततेस्तस्याः कटाक्षच्छटाविक्षेपक्षमवक्षसं विजयिनं जाने पुमांसं परम्
............... भ्रूमङ्ग पुनः,
................ । अस्याः कोऽप्ययमित्येवेत्य तदहो धन्या वयं नाकिनां सङ्कल्पो न मृषा भवेच्च बलवानोपेक्षते स्वं प्रभुः सदादर्शो दृश्यो युवजनमुखाम्भोरुहकुलं सहासं संतन्वनलमखिलदोषात्ययरुचिः । समुद्वैलानन्दाम्बुधिमधि परिप्लावितजगनवीनस्तन्वङ्गया विशदवदनेन्दुर्विजयते
॥ १० ॥ सुमुखीमुखवारिजन्मना स्मितभाजा युवलोचनालिनः । यदहो बहुशो बबन्धिरै तदिहान्धकरणं स्मरव्रतम् ॥ ११ ॥
॥ ८
॥
૨૦૯
For Private And Personal Use Only