________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्त्रि ! किमिमावलियुक्कजकुमलावुत कुचौ तव चूचुकचञ्चुरौ ? । भ्रममिति प्रथयन् भ्रमिता भृशं कनकवद् नरकानलतापितः ॥ ३१ ॥
हृद्गतहारवर्णनम् (वंशस्थ) वधूमुखेन्दुं किमुपासितुं स्थितं भमण्डलं हृद्गतहारदम्भतः । वितर्कसम्पर्कपरः परेतवत् त्वमित्यहो ! हा ! रखवान् भविष्यसि।। ३२ ।। हृदम्बुजाद् बालमृणालमण्डली समुद्ययौ हारमिषात् किमु स्त्रियः । निबद्धबुद्धिस्त्वमिति प्रबध्यसे न किंतरामान्तरवैरिणां भरैः ॥ ३३ ॥
उदरवर्णनम् (प्रहर्षिणी) सम्माद्यन्मृगपतिजैत्रमध्यमासां नारीणामुदरमिहास्ति वा न वेति । आरेकां तव दधतो मदान्धबुद्धेरारेका गतिरधरा न का भवित्री ? ॥ ३४ ॥ सच्छायामुदरलतां लतामिवैक्ष्य ध्यायो मा स्तनफलशालिनीम् । युवत्याः सुध्यानस्थगनविधानसावधानां मत्वैनामिति सुजनास्तपश्चरन्ति
11३५ ॥ रोमलतावर्णनम् (वसन्ततिलका) नाभ्यालवालवलयोद्गतलोमवल्ली शृङ्गारसाररसपूरमयी कृशाङ्गयाः । आश्चर्यमेवमभितो भजतस्तवेयं सम्पत्स्यते किमुरगीव न जीवहन्त्री
॥ ३६॥ रोमावली वरतनो रतिकेलियष्टि मा नृत्य रे हृदय ! नेत्रहरी विदित्वा । किन्तु स्मरेण रचितां मुनिमानसानां बुध्यस्व बन्धनकृते खलु शृङ्खलां ताम्
॥ ३७॥
૨૦૫
For Private And Personal Use Only