SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org प्रशस्यः स्यात् सुरेन्द्राणां प्राणी भूताभयप्रदः । इव पारावतत्राता श्रीशान्तिः पूर्वजन्मनि परदारपरित्याग - ब्रह्मचर्यं य आचरेत् । सकष्टान्मुच्यते तत्र सुदर्शननिदर्शनम् स्युः पाणिपल्लवस्थानि स्वर्गसौख्यानि देहिनाम् । कष्टानि च क्षयं यान्ति सीताया इव शीलतः अतिघोरतपः कर्मानुष्ठानेभ्योऽपि दुष्करम् । पालयन् ब्रह्मचर्यं स्यात् प्रशस्यः स्थूलभद्रवत् कार्यं विवेकिनाऽवश्यं निजसामर्थ्यतस्तपः । वन्द्यः स्याद्धरिकेशीव निष्कुलोऽपि हि नाकिनाम् दुःख दारिद्र्य - दौर्भाग्य दारुपुञ्जदवानलम् । तसं तपो मनोऽभीष्टं साधयेन्नन्दिषेणवत् पञ्चेन्द्रियवधाद्युग्र क्रूरकर्मकरोऽपि सन् । तपःप्रभावात् सुदृढ- प्रहारीव शिवं व्रजेत् भव्यो लभेत भावेन शिवशर्माणि निर्णयात् । इलाचीनन्दन इव परिग्रहधरोऽपि सन् मुक्तिपद्धतिपाथेयं शुभभावं दधत् सुधीः । मरुदेवास्वामिनीव श्रीयते निर्वृतिश्रिया देहिनः साधुसंसर्गात् क्षणमात्रं कृतादपि । सद्धर्मसम्मुखीनाः स्युर्यथा सेचनकद्विपः सुधीर्धर्मिष्ठसंसर्गं धर्मार्थी विदधीत यः । स भवेद् धर्मलाभाय श्रीमदार्द्रकुमारवत् भवेद् भावनया हीनमर्हद्दर्शनमङ्गिनाम् । भवान्तरेऽपि बोधाय कमल श्रेष्ठिपुत्रवत् १८१ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only ॥ ९ ॥ ॥ १० ॥ ॥ ११ ॥ ॥ १२ ॥ ॥ १३ ॥ ॥ १४ ॥ ॥ १५ ॥ ॥ १६ ॥ ॥ १७ ॥ ॥ १८ ॥ ॥ १९ ॥ ॥ २० ॥
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy