SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ९६॥ ॥ ९७॥ ॥ ९८॥ ॥ ९९ ॥ ॥१००॥ ॥ १०१ ॥ तत्तल्लीलायितैर्बालैः शोभते श्रीमतां गृहम् । क्रीडादुर्ललितै ति कलभैर्वन्ध्यकाननम् मानमर्हति मत्तोऽपि येनाऽऽयत्ता विभूतयः । इभं भोजयते भूपश्चाटुकारपरः स्वयम् समुन्नतैः सह स्पर्धा स्वाङ्गभङ्गाय केवलम् । घनायाऽसूयतो पश्य हरेर्यत् पर्यवस्यति बलवानवजानाति दुविनीतं पृथग्जनम् । भषन्तं भषणं पश्य करी किं कलहायते ? दूष्यते येन सर्वोऽपि कश्चित्तेनैव भूष्यते । मदो निन्दास्पदं लोके हस्तिनस्तु विभूषणम् प्रख्यातवंशो यन्नाम्ना पुमान् सैषः क्वचिद् यतः । द्रुमेष्वेकैव सा जम्बूर्जम्बूद्वीपो यदाख्यया किमौन्नत्यं किमौज्ज्वल्यं कुर्यान्निर्धनता यदि । हित्वा हिमाद्रिं हेमाद्रिमाद्रियन्ते दिवौकसः केचिद् भवन्त्यपकृत्येऽपि मित्राणां सहकारिणः । सहायः किं न दाहाय दहनस्य समीरणः दत्ते धूर्तः सतृष्णा[ना]मनर्थेष्वर्थविभ्रमम् । मरौ ग्रीष्मः कुरङ्गाणां पुष्णाति मृगतृष्णिकाम् कस्यचिन्मृत्युसमये नितरां स्युर्महोदयाः । विध्यास्यतः प्रदीपस्य पश्य वृद्धिमती शिखाम् उपकारोऽपि निर्नाम नाश्यते कृतनाशिभिः । पयोदानां पयोवृष्टेब्रूहि किं कुरुते मरुः सुखाय मञ्जुलच्छायः प्रभुः प्रागेव किं धनैः । वटो हन्ति श्रमं सद्यः पान्थानां पथि किं फलैः ॥ १०२ ।। ॥ १०३ ॥ ॥ १०४ ॥ ॥ १०५ ॥ ॥ १०६॥ ॥ १०७॥ ૧૧૬ For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy