________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥३६॥
॥ ३७॥
॥ ३८ ॥
॥ ३९ ॥
॥ ४०॥
।। ४१॥
क्षणादसारं सारं वा वस्तु सूक्ष्मः परीक्ष्य(क्ष)ते । निश्चिनोति मरुत् तूर्णं तूलोच्चय-शिलोच्चयो न दौःस्थ्येऽपि निजं स्थानं मोक्तव्यमिति मे मतिः । मृगलक्ष्मा पुनर्लक्ष्मी किं नाऽभ्येति नभ:स्थितः लोकरूढिरिह प्रौढिरस्तु वस्तु यथा तथा । दधि मङ्गलधौरेयं न पुनर्दुग्धमभ्यधु: उत्कर्षश्चापकर्षश्च भृत्यानां भर्तृ-कर्तृको । दिवसान् दिवसाधीशश्चिनोत्यपचिनोति च आत्मने तेऽभिद्रुह्यन्ति ये द्रुह्यन्ति महात्मने । पश्योलूकमनालोकमसूयन्तं विवस्वते सवृत्तैर्महतां पङ्क्तिराप्यते पितुरात्मजैः मङ्गलेषु समश्चके पत्रैरामस्य पिप्पल: धुरि ये मधुरात्मानः पुरतस्तेऽपि निष्फलाः । फले दुर्भक्ष्यमिक्षूणामक्षुण्णं....नेक्ष्यते यस्य लोकोत्तरं सूत्रमापदोऽप्यस्य सम्पदः । शुद्धिमग्नौ निमग्नस्य पश्य कस्याऽपि वाससः सुकृते सर्वत: क्षीणे श्रीरपि क्षीयते क्षणात् । पाथ:पूरे कथाशेषे किं नन्दत्यरविन्दिनी विभवाभोगविस्फूर्तिरदृष्टैकनिबन्धना । क्षोणीरुहपरीणाहे हेतुर्मूलस्य सौष्ठवम् अहितेऽभ्युदिते कान्तिं समूलस्यापि नश्यति । छायातरोरपि च्छाया फाल्गुनेन [वि]नश्यति स्थानोपज्ञं विदुः स्थाने महिमानं मनीषिणः । देवशीर्षेषु शेषेति माल्यं निर्माल्यमन्यथा
॥ ४२ ॥
।। ४३॥
॥४४॥
॥ ४५ ॥
॥ ४६॥
॥४७॥
૧૧૧
For Private And Personal Use Only