________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कुसुमधनुरधिज्यं कार्मुकं नैव धत्ते, क इव बलिजितोऽपि ख्यापयेदात्मदाक्ष्यम्
॥ १०४॥ न्यस्तं सारयुगं नु कामकितवेनोरस्तयऽष्टापदे, क्रीडायै रतिकन्यया नु निहितं यत्कन्दुकद्वन्द्वकम् । तज्जन्मद्वयसत्फलोदयनिभं कल्याणि ! कल्याणिनः, कस्येदं कुचयुग्ममेष्यति तवाऽस्मिन्भोग्यतायोग्यताम् ॥१०५ ॥ स्वच्छस्वच्छविचारिनाभिविततावर्तं स्मितास्याम्बुजं, लोलबाहुमृणालवल्लिविलसल्लोमावलीशैवलम् । रङ्गत्तुङ्गतरङ्गभङ्गुरवलिस्मेराक्षिनीलोत्पलं, किं गौराङ्गि ! तवाङ्गसुन्दरसरस्तष मनः कर्षति ॥१०६॥ न प्रालेयजलानिलैर्न सरसैरम्भोरुहस्रस्तरैस्तारैमौक्तिकदामभिर्न विततैः सान्द्रैर्न चान्द्रैः करैः । न प्राज्यैर्घनसारसारकुमुदस्रक्चन्दनालेपनैः, शक्योऽन्तर्ध्वलितः क्षणं शमयितुं चैतद्वियोगानल: ॥ १०७॥ वक्त्रं गौराङ्गि ! राकामृतकररुचिरं गाढसम्भोगयोगव्यासक्तव्यक्तमुक्ताकणगणविशदस्वेदबिन्दु प्रगे ते। धत्तेऽवश्यायलेशस्तबकितविकचाम्भोजशोभामखण्डां, यत्तत्तज्ज्ञा विहायाऽखिलकमलवनान्येतदाशिश्रिये श्रीः ॥१०८ ॥ प्रागुद्गम्य मुदा सबिन्दुमधरं प्रोद्वीक्ष्य जातक्रुधा, हन्तुं तं चरणो रणन्मणितुलाकोटियोत्पाटितः । तं चाऽऽक्षिप्य हरिक्रमः क्रममनुष्ठाय दृढौष्ठग्रह, श्लिष्ट्वा मां सखि ! कर्तुमात्मरुचितं धूर्त्तः प्रवृत्तो हठात् ॥ १०९ ॥ अन्त:पृष्ठविनिष्टनिष्ठुरनखाभुग्नाङ्गुलीपादुका, संयोगाज्जडितं नु मोहनरसश्लेषेण नु श्लेषितम् ।
૧૦૫
For Private And Personal Use Only