________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥५०॥
यदृष्टः कान्तयान्तर्ग्रथित विचिकिलेन्दीवरस्रक्समैस्तद्गङ्गासङ्गार्कपुत्री लुलितजलचलद्वीचिभिः स्नापितोऽहम् ॥ ४९ ।। भ्रमभ्रमरविभ्रमोद्भटकटाक्षलक्षाङ्किता, दृशामसदृशोत्सवाश्चतुरकुञ्चितभूलताः । स्फुरत्तरुणिमद्रुमोल्लसदनल्पपुष्पश्रियो, हरन्ति हरिणीदृशां किमपि हन्त ! हेलोदयाः तामद्याप्यहमर्ककर्कशदशासम्भूतशोकाष्टदिक्कान्तामुत्कलकान्तकुन्तलतुले जाते त्रियामामुखे । ध्यानानीतमुखेन्दुनेव दलितस्फीतान्धकार: पुरः, पश्यामि स्फुटमष्टमीयशशभृद्बिम्बालिका बालिकाम् ॥५१ ।। यत्तद् विलोकयतु यातु यथा कथञ्चिद्यत्किञ्चिदाचरतु यत्र यथा तथा साम् । प्रेयान् जनो य इह यस्य स तस्य दृष्टौ, दृष्टये दधाति सहसाऽमृतवृष्टिसृष्टिम्
।। ५२ ।। विलासलसदंशुकव्यतिकराङ्गसङ्गोपनक्रमोन्नमितदोर्लताविशदबाहुमूलस्तनम् । विलोलचलनाङ्गुलीलिखितभूतलं सुभ्रवः, स्मरामि तरलेक्षणं तदवहित्थदुस्थं स्थितम्
॥ ५३॥ किञ्चित्त्यस्तैकपार्श्वस्तनतटघटनादुत्नुटत्कञ्चकाङ्गी, मां दृष्ट्वा स्पष्टमोट्टायिततरलचलत्तर्जनीकं व्यधात् या। तामीक्षेऽद्यापि हेलाबलललितवलत्कण्ठमामीलिताक्षं, लोलबोर्नाललीलाचलनकलकणत्कङ्कणं कर्णकण्डूम् ॥५४ ॥ प्राक्कोपादवधूय भूयसि परिम्लानेऽपमाने कृतस्वप्नायाश्चरणस्पृशं धृतसखीवेषं प्रिया (! प्रियं) जानती।
G
For Private And Personal Use Only