________________
१२६ पश्भनन्दि-पञ्चविंशतिः
[391:५-४391) वासः शून्यमठे क्वचिन्निवसनं नित्यं ककुम्मण्डलं
संतोषो धनमुन्नतं प्रियतमा शान्तिस्तपो वर्तनम् । मैत्री सर्वशरीरिभिः सह सदा तत्वैकचिन्तासुखं
चेदास्ते न किमस्ति मे शमवतः कार्य न किंचित् परैः॥४॥ 392 ) लब्ध्वा जन्म कुले शुचौ वरवपुर्बुद्ध्वा श्रुतं पुण्यतो
वैराग्यं च करोति यः शुचि तपो लोके स एकः कृती। तेनैवोज्झितगौरवेण यदि वा ध्यानामृतं पीयते
प्रासादे कलशस्तदा मणिमयो हैमे समारोपितः॥ ५॥ 393 ) ग्रीष्मे भूधरमस्तकाश्रितशिलां मूलं तरोः प्रावृषि
प्रोद्भूते शिशिरे चतुष्पथपदं प्राप्ताः स्थितिं कुर्वते । ये तेषां यमिनां यथोक्ततपसां ध्यानप्रशान्तात्मनां
मार्गे संचरतो मम प्रशमिनः कालः कदा यास्यति ॥६॥ निमीलितदृशं अर्घोद्घाटितनेत्रम् । व सति । तत्त्वोपलम्मे सति ॥३॥ चेद्यदि । मे मम । कचित् शून्यमठे वासः। आस्ते तिष्ठति। नित्यं सदैव । ककुम्मण्डलं निवसनं दशदिक्समूहं वस्त्रम् । मे मम । संतोषः उन्नतं धनम् अस्ति । मम मुनेः । क्षान्तिःक्षमा। प्रियतमा स्त्री अस्ति । मम मुनेः तपः वर्तनं व्यापारः अस्ति । यदि चेत् । मम मुनेः। सर्वशरीरिभिः सह मैत्री अस्ति । चेत् मम सदा तत्त्वैकचिन्तासुखम् अस्ति । यदि चेत् । पूर्वोक्तं सर्वम् अस्ति तदा किं न अस्ति मे। सर्वम् अस्ति । शमवतः मे परैः सह किंचित् कार्य न अस्ति ॥४॥ लोके संसारे। स एकः पुमान् । कृती पुण्यवान् । यः शुचि तपः करोति। किं कृत्वा। शुचौ पवित्रकुले। जन्म लब्ध्वा। वरवपुः शरीरम्। लब्ध्वा। पुण्यतः श्रुतम्। बुद्धा ज्ञात्वा। च पुनः। वैराग्यं प्राप्य यः तपः करोति सः पुण्यवान् । वा अथवा । तेनैव पुरुषेण। उज्झितगौरवेण गर्वरहितेन। यदि चेत् । ध्यानम् अमृतं पीयते तदा। हैमे स्वर्णमये । प्रासादे गृहे । मणिमयः कलशः । समारोपितः स्थापितः ॥५॥ तेषां यमिनां मुनीनाम् । मार्गे संचरतः मम कालः कदा यास्यति । किंलक्षणानां मुनीनाम् । यथोक्ततपसां यथोक्ततपोयुक्तानाम् । पुनः किंलक्षणानाम् । ध्यानप्रशान्तात्मनाम् । ये मुनयः । ग्रीष्मे ज्येष्ठाषाढे। भधरमस्तके आश्रितशिला प्रति स्थितिं कुर्वते । ये मुनयः । प्रावृषि वर्षाकाले। तरोः वृक्षस्य । मूलं प्राप्ताः स्थितिं कुर्वते । ये मुनयः । प्रोद्भूते शिशिरे शीतऋतौ । चतुष्पथपदं प्राप्ताः स्थितिं कुर्वते । तेषां मार्गे संचरतः मम कालः कदा यास्यति ॥ ६ ॥ समझने लग जावे तो मुझ जैसा मनुष्य पुण्यशाली होगा ॥ ३ ॥ यदि मेरा किसी निर्जन उपाश्रयमें निवास हो जाता है, सदा दिशासमूह ही मेरा वस्त्र बन जाता है अर्थात् यदि मेरे पास किंचित् मात्र भी परिग्रह नहीं रहता है, सन्तोष ही मेरा उन्नत धन हो जाता है, क्षमा ही मेरी प्यारी स्त्री बन जाती है, एक मात्र तप ही मेरा व्यापार हो जाता है, सब ही प्राणियोंके साथ मेरा मैत्रीभाव हो जाता है, तथा यदि मैं सदा ही एक मात्र तत्त्वविचारसे उत्पन्न होनेवाले सुखका अनुभव करने लग जाता हूं; तो फिर अतिशय शान्तिको प्राप्त हुए मेरे पास क्या नहीं है ? सब कुछ है । ऐसी अवस्थामें मुझको दूसरोंसे कुछ भी प्रयोजन नहीं रहता है ॥४॥ लोकमें जो मनुष्य पुण्यके प्रभावसे उत्तम कुलमें जन्म लेकर, उत्तम शरीरको पाकर और आगमको जान करके वैराग्यको प्राप्त होता हुआ निर्मल तप करता है वह अनुपम पुण्यशाली है। वही मनुष्य यदि प्रतिष्ठाके मोह ( आदरसत्कारका भाव) को छोड़कर ध्यानरूप अमृतका पान करता है तो समझना चाहिये कि उसने सुवर्णमय प्रासादके ऊपर मणिमय कलशको स्थापित कर दिया है ॥ ५ ॥ जो साधु ग्रीष्म ऋतुमें पर्वतके शिखरके ऊपर स्थित शिलाके ऊपर, वर्षा ऋतुमें वृक्षके मूलमें, तथा शीत ऋतुके प्राप्त होनेपर चौरस्तेमें स्थान प्राप्त करके ध्यानमें स्थित होते हैं; जो आगमोक्त अनशनादि तपका आचरण करते हैं, और जिन्होंने ध्यानके द्वारा अपनी आत्माको अतिशय शान्त कर लिया है। उनके मार्गमें प्रवृत्त होते हुए मेरा काल अत्यन्त शान्तिके साथ कब बीतेगा ? ॥६॥
१ मु (जै. सि.) तपोभोजनम् । २ श एव ।