SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir युक्ति टीका ॥१०॥ ENCYC hd टवत्, ननु यथा घटादिकार्यस्य कर्ता कुलाल उपलश्यते, तथा भूधरादिकार्याणां का शरीरी कर्नास्तीति चेतृणु, स्वस्वकर्मसहकृताः पार्थिवादिजीवास्तकारस्ते च संसारित्वेन शरीरिण एव, ननु पुराव्यां जीवा संतीसत्र कि प्रमाणमिति चेदनुमानादेव तदास्यां कुरु, सकलापि पृथ्वी जीवनरीरं बेद्यत्वात्तरुवत् । मनुष्यशरीरवञ्चतीश्वरस्य जगत्कर्तृतानिरासः ॥११॥ ॥ मूलम् ।।-चेदेक एवास्ति हरस्तदाऽसौ, न जीवनावं नजतेंऽतरिक्षवत् ॥ अथेश्वरश्चेत् स्ववशः कथं न, करोति लोकं सुखिनं समग्रं ॥ १२ ॥ ॥ टीका ॥-अथ हर एक एवास्तीति यद्यौगा वदंति तनिषेधायाह-वैद्यदि हर एक एवास्ति, तदासौ शंभुजीवनवं न जजते, न प्राप्नोनि, अंतरिक्तवद् गगनवन, यथाहि गगनं एकत्वादजीवः, तथायमपि, कथमिति चेच्चणु, एकत्वं सजीवत्वं च तावन्न कचिद् दृष्टं, एकत्वं चात्र सजातीयाऽन्नावः. स च गगनादौ विद्यते, तस्माद्यथा नीवत्वे सति एकत्वं गगने विद्यते, तथापि, तया च प्रयोगः-ईश्वरोऽनात्मा एकत्वाद् गगनवत् । अयेश्वरस्य स्ववशत्वं निराकरोति । अयेयानंतार्थ चेदीश्वरः स्ववशोऽस्ति परनिरपेकोऽस्तीसर्थः, तदा तत्तत्माणिगणोपार्जिततत्कमजन्यमुखज्जःखप्रदाताऽसौ कथमंगा क्रियते, येन दि प्राक्तनं यादृशमदृष्टयर्जितं तादृशादृष्टानुसारी परमेश्वरस्तस्य तजनितं मुखं दुःखं वा ददातीत जन्मतरहस्यवेदिनः। तथा च पाणिगणोपाजितकर्मक्शत्वेनास्य स्ववशत्वं कुत इति, अथेशस्य स्ववशत्वं यदि स्यात् तदा समग्रं लोकं कथं नासौ मुखिनं करोति, कथमिति चेतृणु, लोकं किल सृजन्नसौ कारुणिको अकारुणिको वा, चेदकारुणिकस्तदास्य देवत्वमेव व्याहतं, म्लेवन्निष्ठुरहृदयत्वात्तस्येति, ॥ १० For Private and Personal Use Only
SR No.020957
Book TitleYuktiparkash Satic Syadwadkalika Ashtakani
Original Sutra AuthorN/A
AuthorPadmasagar Gani, Rajshekharsuri, Haribhadrasuri
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages46
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy