________________
Shri Mahavir Jain Aradhana Kendra
युक्तिप्रबोधे
॥२०७॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| प्रबोधिता इति आवश्यकवृत्तौ, कथानकं स्पष्टं । देवक्या गृहे साधुगमनं तु गजसुकुमालाधिकारे तथाविधश्राद्धभावातिशयेऽन्यस्याग्राह्मवस्तुनोऽग्रहणेऽपि सुख भक्षिकामात्रेणापि पात्रप्रतिलाभेनाहमनुग्रहं लभे इत्याशयेनेत्यवगन्तव्यं तथैवाधुनापि परम्परागमप्रवृत्तेः, अयमर्थस्तु अजुगुप्सनीयेषु अगषु इति विशेषणद्वये सुलभः, न चेत् यद्गृहे पानीयं पीतं स तद्रूप एवेति लोकविरोधः, अन्यथा चाण्डालादिगृहस्यावर्जनं स्यात् ।। देवनरादिविजातीयभोगोऽपि साम्प्रतं दृश्यते श्रूयते च स्थानांगादौ, अन्यथा चूडाबल्याः पुरुषेण भोगः कथं स्यात् ?, न चै तृत् मिथ्या, प्रत्यक्षादेव || पष्टिसहस्रसगरसुतोद्भवप्रत्यये द्वात्रिंशत्सुतानामश्रद्धाने मत एव शरणं ॥ कामस्य जगद्वशीकारसामर्थ्यात् प्रजापतेः स्वतनयाकामुकत्वं शास्त्रान्तरेऽपि गीयते, तत्र वासुदेवोत्पत्तिस्तु नीचेर्गोत्रोदयवशात् नासंभाव्या, विचित्रत्वात् कर्मपरिणतेः, नहि अस्मदादिमन्दबुद्धिवितर्कानुरोधादेव जगत्परिणमते ।। जल्पद्वये आर्यत्वमनार्यत्वाविनाभावि साधुत्वचौरत्वादिवत् तेन यत्रार्यास्तत्र अनार्या अपि भवन्त्येव म्लेच्छानां नानाजातीयत्वात्, विन्ध्यमलकुटजवने खदिरः किरात मुख्यः समाधिगुप्तमुनीन् दृष्ट्वा प्रणतः, तस्मै धर्मलाभ इत्युक्ते कोऽसौ धर्मलाभ इति परिप्रश्ने मांसादिनिवृत्तिधर्मस्तत्प्राप्तिर्लाभः ततः सुखमिति चारित्रसारग्रन्थे भिल्लपल्लयादीनां तवापि शास्त्रे श्रवणात् नानुपपतिः ।। प्रमाणाङ्गुलैरेकक्रोशस्य चतुःशतगुणत्वात् उत्सेधागुलत्वेन चतुःशतक्रोशा एव भवन्ति, चउसयगुणं पमाणंगुलमुस्सेहंगुलाउ बोद्धव्यमित्यागमात्, यत्तु त्वग्नये पञ्चशतक्रोशा इत्युक्तं तत् कया गणनयेति प्रष्टव्योऽस्ति भवान् ॥ प्राणान्तकष्टेऽपि न व्रतभङ्ग इति उत्सर्गः सम्यगेव मोक्षमार्गः, परं तस्यापवादसापेक्षत्वेनैव प्रामाण्यात् यदा वैमनस्यं तदा पापस्य प्रायश्चित्तविशेोध्यत्वादपवादो ऽपि मार्गत्वेनैव जिननोक्तः, परं पापं न भवतीति न ज्ञानिवचनं, तेन यथामनः समाधानं व्रतरक्षा विधेया, एतदाशयेन ओघनियुक्ति
For Private and Personal Use Only
द्वात्रिंशत्सुतादि
जल्पस०
1120011