SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra युक्तिप्रबोध ॥१९८॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रे श्रीरवशेखरसूरिभिः- “ नयो हृदा घना बादराग्निर्जिनाद्युत्तमपुरुषा नरजन्ममृती कालो मुहूर्त्तप्रहरदिन रात्रिवर्षादिकः आदिशब्दात् चन्द्रसूर्य परिवेषादयो मनुष्यक्षेत्रं मुक्त्वा परतो न भवंती" ति अपिच-व्यवहारकालोऽपि मनुष्यक्षेत्र इत्युभयपक्षसम्मतं, न च व्यवहारः सर्वथा निश्रयाद् भिन्न एव, बादराणां पर्यायाणां व्यवहारगोचरत्वात्, तद्व्यतिरिक्तद्रव्यस्य निश्वयालम्बनात्, निश्चयव्यवहारयोस्तद्विषययोश्च भेदाभेदस्यैव प्रामाण्याच्चेत्युक्तं प्राक् तेन यस्य यत्र व्यवहारस्तत्रैव तभिश्वय इति नियमात् व्यवहारकालवत् निश्रयतोऽपि कालः समयक्षेत्र एवेति तत्रं द्वात्रिंशिकायां, ग्रामे ब्राह्मणादयश्चत्वारो वर्णा वसन्तीतिवदुपचार एव, न ब्राह्मणाः सर्वग्रामे व्याप्य तिष्ठन्ति एतत्प्रयोजनं तु साहित्यमेव, अन्यथा आशाम्बरनयेऽपि पञ्चस्तिकाये 'समवाओ पंचण्णं समओत्ति जिणुत्तमेहिं पण्णत्तं । सो चैव हवइ लोओ तत्तो अमिओ अलोओ खं ॥ १ ॥' अत्र पञ्चानामस्तिकायानामन्ययोगव्यवच्छेदफलेनैव कारणेन निर्णयात् षष्ठद्रव्यस्य निषेध एव स्यात्, स्थानान्तरात्तन्निर्णये त्वत्रापि तुल्यता, यद्वा समयक्षेत्रवहिः स्थितवस्तुपरिणामस्थितिकालस्य चक्रकीलिकान्यायेनान्तः स्थिताद्धाकालस्य निमित्तत्वाद् यावल्लोकव्यापित्वमस्तु, साक्षाद्रूपेण कालद्रव्यस्य समयक्षेत्रातिक्रमे समयासमयक्षेत्रव्यवस्थानुपपत्तेः, स्पष्टं चेदं प्रज्ञापनावृत्तौ । श्रीमुनिसुव्रतप्रभोगणधरोऽश्व इत्येतत्तु न सत्यवचः, तीर्थकराशातनाबलान् मिध्यादृष्टित्वं तद्वक्तुः ख्यापयति, तत एव द्विष्टता स्पष्टा तत्प्रमाणयितुः, श्वेताम्बरमते तद्गन्धस्याप्यभावात्, श्रीमुनिसुव्रतस्य प्रथमगणधरो मलिनाम्नाऽभूत्, यदुक्तं प्रवधनसारोद्धारसूत्रे - " उस हाइजिनिंदाणं आइमगणहरति द्वारे ८- सिरिउसहसेण १ पहु सीहसेण २ चारूरु ३ वज्जनाहक्खा ४। चमरो ५ सुज्जोम वियन्भ दिपहुणो वराहो य ॥ १ ॥ पहु नंद कुच्छुहावि य सुभोम मंदर जसो अरिट्ठो य । चक्काउह संग कुंभो मिसय For Private and Personal Use Only कालद्रव्यं सुनिसुव्रतस्यगणघरः ॥१९॥
SR No.020956
Book TitleYukti Prabodh
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1928
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy