SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशसहिता। एवमीश्वराङ्गीकारानिरीश्वरसांख्यमीमांसकादिमतनिरासः । तस्यैवोपादानस्वस्वीकाराद्योगपाशुपतनैयायिकानां मतनिरासः।तैनिमित्तमात्रेश्वराङ्गीकारात्। ईश्वरस्य कार्य प्रत्युपादानवनिमित्तत्ववत्कर्तृत्वप्रेरकत्वनियन्तृत्वशास्तृत्वसहकारित्वोदासीनत्वादिकमप्युपपद्यते । बाल्ययौवनावस्थादयो दोषा यथा शरीरगता न तु शरीरिणि जीव एवं चिदचिच्छरीरिणः परमात्मनोऽपीति न निर्विकारश्रुतिविरोधः । नियमेनाऽऽधेयत्वविधेयत्वशेषत्वादेः शरीरलक्षणस्य जगति विद्यमानत्वाजगच्छरीर ईश्वरस्तद्गतदोषैरसंस्पृष्टश्च । । ___ स चेश्वरो विभुस्वरूपः । विभुत्वं नाप व्यापकत्वम् । तच्चेश्वरस्य त्रिधा स्वरूपतो धर्मभूतज्ञानतो विग्रहतश्च । स चानन्त इत्युच्यते । अनन्तो नाम त्रिविधपरिच्छेदरहितः । त्रिविधपरिच्छेदस्तु देशतः कालतो वस्तुतः परिच्छेदः । सत्यत्वानत्वानन्दत्वामलत्वादय ईश्वरस्य स्वरूपनिरूपकधर्माः। ज्ञानशक्त्यादयो निरूपितस्वरूपंधर्माः। सर्वज्ञत्वसर्वशक्तित्यादयः सृष्टयुपयुक्ता धर्माः । वात्सल्यसौशील्यसौलभ्यादय आश्रयणोपयुक्ता धर्माः । कारुण्यादयो रक्षणोपयुक्ता धर्माः । एतेषां स्वरूपं बुद्धिपरिच्छेदे निरूपितमितीह न मपञ्च्यते । अयमीश्वरोऽण्डसृष्टयनन्तरं चतुर्मुखदक्षकालादिष्वन्तर्यामितया स्थित्वा सृष्टिं करोति । विष्ण्ववताररूपेण मनुकालाधन्तर्यामिस्वरूपेण च स्थित्वा रक्षको भवति । रुद्रकालान्तकादीनामन्तर्यामितया संहारमपि करोति । अतः सृष्टिस्थितिसंहारकर्ता च भवति । एवंप्रकार ईश्वरः परव्यूहविभवान्तर्याम्यर्चावताररूपेण पञ्चप्रकारः । तत्र परो नाम त्रिपाद्विभूतौ कुमुदकुमुदाक्षपुण्डरीकवामनशकुकर्णसर्वनेत्रसुमुखमुमतिष्ठितादिभिर्दिव्यायुधभूषणपरिजनपरिच्छदान्वितैर्दिव्यनगरपालकैः परिपरब्यूहेति । तदुक्तं विष्वक्सेनसंहितायाम् - * मम प्रकाराः पञ्चेति प्राहुर्वेदान्तपारगाः। परो व्यूहश्च विभवो नियन्ता सर्वदेहिनाम् ॥ अर्चावतारश्च तथा दयालुः पुरुषाकृतिः। . इत्येवं पञ्चधा प्राहुर्मा रहस्यविदो जनाः।' इति । १. नत्वादिस्वी' 1 ३ ख. स्वक। ३ घ. प्रकाशितृत्व ग. प्रकाशयितृत्व ४ ख. या 'कमुप । ५ घ. रीरीश्व (प. ज्ञानानन्द । ७ घ. पविशेषका ध। ८ घ. 'मि . दीनां चान्त। For Private And Personal Use Only
SR No.020949
Book TitleYatindramatdipika
Original Sutra AuthorN/A
AuthorNivasdas, Hari Narayan Apte,
PublisherAnand Ashram
Publication Year1827
Total Pages126
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy