SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५८ यतीन्द्रमतदीपिकासमोविशेषसंनिधानासंनिधानाभ्यां स्वापादिसिद्धिा पुस्त्वादिवञ्च । पुंस्त्वादिक बाल्ये तिरोहितं यौवन आविर्भवति । यो यदाश्रितस्वभावः स तस्य गुण इति लक्षणलक्षितत्वाजानं गुणः । विशेषणादिवत् । यतः संकोचविकाशावस्थावत्, अतो द्रव्यमपि भवति । आत्मगुणभूतज्ञानस्य द्रव्यत्वं कथमिति न शङ्कनीयम् । प्रभावदेकस्यैव द्रव्यत्वगुणत्वयोविरोधाभावात् । अवस्थाश्रयो द्रव्यमिति द्रव्यलक्षणम् । स्वाश्रयादन्यत्र वर्तमानत्वमपि प्रभावदेवोपपद्यते । प्रयोगश्च-गुणभूता बुद्धिव्यं प्रप्तारणादिमत्त्वात्मभावत् । ज्ञानं द्रव्यं संयोगादृष्टान्यस्वे सति भावनाकारणत्वादात्मवदिति । मुक्तमानस्य युगपदनन्तदेहसंयोगो नयन सूर्यादितेजोवत्संभवति । प्रतिबन्धांशमोक्षायैनित्यं ज्ञानं हि जायते । चिरमप्रतिबन्धेन चिरं तिष्ठति भासकम् ' इति । अन्ये तु धारावाहिकविज्ञानं स्नेहदशादिसमवायसंतन्यमानदीपवत्संततिरूपमित्याहुः । स्वापादीति । यत्तु षडर्थसंक्षेपे श्रीराममित्रैरुक्तम् - स्वतः सिद्धिरियं संवित्सुषुप्तावपि स्फुरत्येव । स्वाश्रयायैव हि सा भाति । अव्यवहारनियमस्तु करणोपरतिनियमादिति । विवरणेऽप्येवमेवोक्तम् । तत्सर्व प्रौढिवाद इति ज्ञेयम् । अन्यथा 'पुंस्त्वादिवत्वस्य सतोऽभिव्यक्तियोगात् ' (ब. सू. २।३।३१) इति सूत्रेण तद्भाप्येण च विरोधात् । तद्धवनयन्नाह-पुंस्त्वादीति । किं च यथा सर्वविषय. प्रकाशनशीलायाः संविदः समस्तबाह्यविषयवैमुख्यं तथाऽऽन्तरविषयवैमुख्यमपि स्यादेवेति बोध्यम् । द्रव्यमपीति । न तावदस्माकमद्रव्यमेव गुण इति वैशेषिकादिवन्निबन्धः । विशेषणादिवत् । यो यदाश्रितस्वभावः स तस्य गुण इति हि गुणलक्षणम् । न तु पारिभाषिकम् । सर्वव्यवहारविरोधात् । अत एवोक्तं यामुनाचा: 'आश्रयादन्यतो वृत्तेराश्रयेण समन्वयात् । द्रव्यत्वं च गुणत्वं च ज्ञानस्यैवोपपद्यते ' इति । एवं च केचिद्व्यात्मकगुणाः केचित्केवलगुणा इति द्विविधा गुणाः । पूर्व ज्ञानादयः । उत्तरे सत्वरजःप्रभृतय इति बोध्यम् । अनन्तति । अत्र च ज्ञाननिष्ठो वेगातिशयः कारणम् । इष्टं च विचित्रवेगित्वं नायनतापनादिमहसाम् । तच्च काष्ठाप्राप्तं युगपत्रिचतुरक्षणेन वा विश्वमास्कन्दते । १ ख. 'टाजन्य । २ क. सङ्गो न' । ३ घ. 'योगः साय । For Private And Personal Use Only
SR No.020949
Book TitleYatindramatdipika
Original Sutra AuthorN/A
AuthorNivasdas, Hari Narayan Apte,
PublisherAnand Ashram
Publication Year1827
Total Pages126
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy