________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
16
यतीन्द्रमतदीपिका
षां नयनतुति । गन्धमात्र ग्रहणशक्तमिन्द्रियं घ्राणम् । नासाग्रवृत्ति रसपाश्रग्रहणशक्तमिन्द्रियं रसनेन्द्रियम् । जिह्वाग्रवृत्ति । स्पर्शमात्रग्रहणशक्तमिन्द्रियं स्वगिन्द्रियम् । सर्वशरीरवृत्ति । नखदन्तकेशादिषु प्राणमान्यतारतम्यात्स्पर्शानुपलम्भः । श्रोत्रादीन्द्रियाणां भौतिकत्वप्रतिपादनं भूताप्यायितृत्वेनौपचा रिकम् । एतेषां विषयसंबन्धः कचित्संयोगः कचित्संयुक्ताश्रयणमिति वृद्धसंमदायः ।
उच्चारणादिष्वन्यतमक्रियाशक्तत्वं कर्मेन्द्रियसामान्यलक्षणम् । तच वाक्पाणिपादपायूपस्थभेदात्पञ्चधाऽवस्थितम् । वर्णोच्चारणकरणमिन्द्रियं वाक् । तच्च हृत्कण्ठजिह्वामूलतालुदन्तोष्ठनासामूर्धरूपस्थानाष्टकाते । मृगादिष्वदृष्टविर
.
एव बद्ध्यहंकार चित्तशब्दैर्व्यपदिश्यत इति । भौतिकत्वेति । यत्तु वैशेषिका अनुमा• नेन भौतिकत्वं साधयन्ति । तथाहि - त्वगिन्द्रियं वायवीयम् । रूपादिषु मध्ये स्पर्शमात्राभिव्यञ्जकत्वात् । स्वेदशैत्याभिव्यञ्जकपवनवत् । चक्षुरिन्द्रियं तेन. सम् । रूपादिषु मध्ये रूपमात्राभिव्यञ्जकत्वात् । दीपप्रभावत् । रसनेन्द्रियमांध्यम् । रूपादिषु मध्य रसमात्राभिव्यञ्जकत्वात् । दन्तान्तर्गततोयवत् । घ्राणेद्रियं पार्थिवम् । रूपादि ु मध्ये गन्धमात्राभिव्यञ्जकत्वात् । कुकुमगन्धभिव्यञ्जकतवदिति । तच्चिन्त्यम् । व्यञ्जकत्वं किं व्यक्ति प्रति करणत्वं हतुत्वमात्रं वा । न ऽऽद्यः । स्वरूपासिद्धेः । यस्मिन्सत्यविलम्बेन कार्योत्पत्तिस्तस्य करणत्वेनेन्द्रियसंयोगस्य करणत्वेऽपीन्द्रियाणामकरणत्वात् । नान्त्यः । इन्द्रियाधिष्ठानतत्संस्कारादिमि• र्व्यभिचरितत्वात् । भूताप्यायितृत्वेनेति । पोषकत्वनेत्यर्थः । शरीरविनाशे च तत्स्थानीन्द्रियाणीन्द्रियाप्यायकैर्भूतैरंशतो हीयन्ते शरीरान्तरे पुनरापूर्यन्त इति भावः ।
भत एव
Acharya Shri Kailassagarsuri Gyanmandir
आप्यायन्ते च ते नित्यं तदवस्थैस्तु पञ्चभिः ।
इति मोक्षधर्म उक्तम् । एतेषामिति । तदुक्तं तत्त्वरत्नाकरे
तत्र - वृद्धा विदामासुः संयोगं संनिकर्षणम् । संयुक्ताश्रयणं चेति यथासंभव मूह्यताम् ॥
इति । तत्र वाय्वादिचतुष्टयं यथायोग्यं संयोगसंबन्धेन गृह्यते । स्पर्शादयस्तु
संयुक्ताश्रयणसंबन्धेनेति विवेकः ।
१.
For Private And Personal Use Only