________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यतीनमतदीपिकाअथ द्वितीयोऽस्तार
अयानुमानं निरूप्यते । व्याप्यस्य व्याप्यत्वानुसंधानाध्यापकाविशेषणमिति स्नुमितिः । तत्करणमनुमानम् । व्याप्यस्य धूमस्यामिव्याप्यत्वानुसंधानाया पकविशेषप्रमितिर्वहिममितिः । अनधिकदेशकालनियतं व्याप्यम् । अन्यूनदे: शकालत्ति व्यापकम् । तदिदमविनाभूतं व्याप्यम् । तत्मतिसंबन्धि व्यापकमिति । तेन निरुपाधिकतया नियतसंबन्धो व्याप्तिरित्युच्यते । सेयं यत्र धूमस्तत्र वद्विरिति व्याप्ति यो दर्शनावृह्यते । व्याप्तिदिविधा । अन्वयव्यतिरेकभेदात् । साधनविधौ साध्यविधिरूपेण प्रवृत्ता व्याप्तिरन्वयव्याप्तिः । यथा यो यो धूपवान्स सोऽग्निमानिति । साध्यनिषेधे साधननिषेधरूपेण प्रवृत्ता व्याप्तिर्व्यतिरेकव्याप्तिः । यथा योऽनग्निः स निधूम इति ।
सेयमुभयविधा व्याप्तिरुपाधिसंभवे दुष्यति । साध्यव्यापकत्वे सति साधनाव्यापक उपाधिः । यथा वह्निना धूमे साध्यमान आर्टेन्धनसंवन्ध उपाधिः। मैत्रीतनयत्वेन श्यापत्वे साध्यमाने शाकपाकजत्वमुपाधिः । स
.
अथ द्वितीयोऽवतारः ।
साधनविधाविति । हेतुसद्भावे साध्यसद्भावोऽन्वयः । साध्याभावे साधना. मावो व्यतिरेकः । न पुनः साधनाभावे साध्याभावः ।
'व्याप्यव्यापकभावो हि भावयोर्यादृगिष्यते।
तयोरभावयोस्तस्माद्विपरीतः प्रतीयते ' इत्युक्तेः । यथा वहिनेति । अत्र यत्रयत्र धूमस्तत्रतत्राऽऽन्धनसंयोमो वर्तत इति तस्य साध्यव्यापकत्वम् । यत्रयत्र वह्निस्तत्रतत्राऽऽन्धनसंयोगोनास्ति , अयोगोलके व्यभिचारादिति तस्य साधनाव्यापकत्वम् । एवमग्रेऽपि । स्वव्यापकत्वेनाभिमतस्य यो व्याएकः स यदि स्वव्यापको न भवति तर्हि स्वव्यापकत्वेनाभिमते स्वव्यापकत्वं नास्त्येव । पर्वतो धूमवानित्यनुमाने वहिव्यापकत्वेनाभिमतस्य धूमस्य व्यापको य आर्दैन्धनसंयोगः स वह्निव्यापको न भवतीत्युपाधिलक्षणादवगते वहिव्यापकत्वं धूमस्य नास्तीति निश्चयो भवति । एतदेवोपाधेर्दूषकताबीजम् । तदुक्तम्-निरुपाधिकसंबन्धस्य व्याप्तिस्वरूपत्वात्तदभावेन व्याप्तिमवसादयन्नृपाधिईषणमिति । उपाधिव्यभिचारेण हेतौ साध्यव्यभिचारानुमानमपि भवति । यथा वह्निर्धूमव्यभिचारी, धूमव्यापकाइँन्धनसंयोगव्य
, क, ख. °यमं व्या । २ घ. लवति व्या' ।
For Private And Personal Use Only