________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशसहिता।
ख्यात्यनिर्वचनीयख्यात्यन्यथाख्यात्यसत्ख्यातिवादिनो निरस्य सत्ख्याते. पक्षस्वीकारात् ।
यांगाचारा माध्यमिकास्तथा मीमांसका अपि ।
नैयायिका मायिनश्च प्रायः ख्यातीः क्रमाजगुः ॥ २ ॥ सत्राऽऽत्मख्याति माऽऽत्मनो बुद्धः ख्यातिर्विषयरूपेण प्रतिभासः । इदं रजतमिति बुद्धिरेव रजतरूपणावभासते । न तत्र विषयान्तरापेक्षा । अयं घट इत्यादिषु सर्वत्र बुद्धरेव विषयाकारोल्लेखसंभवेनात्रापि तथैवौचि यात् । प्रयोगश्च-विमतं रजतं बुद्धिरूपं चक्षुरादिसंप्रयोगमन्तरेणापरोक्षत्वात्संमतबुद्धिवदिति विज्ञानवादिनो बौद्धाः । तच्चिन्त्यम् । चतुर्विधान्हेतून्प्रतीत्य चित्तचैत्ता उत्पद्यन्त इति हि तेषां मतम् । तत्र न तावत्सहकारि• प्रत्ययाख्यादालोकादे रजताकारोदयः संभवति । तस्य स्पष्टतामात्रहेतुत्वात् । नाप्पधिपतिप्रत्ययाख्याच्चक्षुरादेः । तस्य विषयनियममात्रहेतुत्वात् । नापि समनन्तरप्रत्ययाख्यात्पूर्वज्ञानात् । विनातीयघटज्ञानानन्तरं विनातीयरजतभ्रमोदयादर्शनात् । नाप्यालम्बनप्रत्ययाख्याद्वाह्यात् । विज्ञानवादिना तदनङ्गीकारात् । ततः कथं रजताद्यसत्वे विज्ञानस्य रजताकारसमर्पणम् । नच संस्कारसामर्थेन तत्कल्पनमिति वाच्यम् । विकल्पासहत्वात् । तथाहि-स संस्कारः किं स्थायी क्षणिको वा । आये क्षणिक सर्वमिति त्वदीयसिद्धान्तहानिः । अन्त्ये तस्य द्वितीयक्षणावृत्तित्वेन रजताकारकल्पनाहेतुत्वायोगात् । पक्षद्वयेऽपि तस्य संस्कारस्य ज्ञेयत्वेन विज्ञानमात्रवादहानिश्च । किंच स रजताकारः कथमुत्पद्यते । बाह्यार्थाज्जायत इति तु वक्तुमशक्यम् । त्वया बाह्यार्थ. स्यानङ्गीकारात् । ज्ञानमपि विशुद्धं तावन्न तजनकम् । तस्य मोक्षरूपत्वात् । दृष्ट कारणन. न्यज्ञानं तजनकमिति चेत्तत्रापि जनकीभूतज्ञानमेव रजतग्राहकमन्यद्वा । नाऽऽधः । क्षणि. कयोर्जन्यजनकयोभिन्न कालीनत्वेनापरोक्षरजतप्रतीत्यभावप्रसङ्गात् । नान्त्यः । अन्यस्य ज्ञानस्य रजतजन्यत्के रजतादिर्वाह्योऽर्थोऽङ्गीकार्य: स्यात् । रनताजन्यत्वे तु रजतं न तद्विषयः स्यात् । ज्ञानाकारापको हेतुर्विषय इत्यङ्गीकारात् । तस्मादात्मख्यातिपक्षे रजतमेव न प्रतीयेत । किंच बुद्धिबोध्ययोरभेदं ब्रुवता विरुद्धधर्माध्यासेन भेदः कश्चि. दङ्गीकृतो न वा । न चेत्क्षणभेदाद्यसिद्धिप्रसङ्गः । अङ्गीकृतश्चेच्छृतपीताद्यनेकाकारग्राहिण्येकत्र ज्ञाने कथं मिथोविरुद्धश्वेतपीतादितादात्म्यसंभव इति बोध्यम् ।
असख्याति मासतो रजतादेः ख्यातिः प्रतीतिरिति शून्यवादिनो बौद्धाः । वाच. स्पतिमिश्रा अपि शुक्ताविदं रजतामिति ज्ञाने प्रसिद्धयोः शक्तिरजतत्वयोरलीक एवं समवायो भासत इत्यसत्ख्यातिमङ्गीचक्रुः । तच्चिन्त्यम् । असतो भानासंभवात् । अन्यथा शशशृङ्गादेरपि भानं स्यात् । ननु पदार्थस्य सत्त्वं न सिध्यतीत्यसत्ख्यातिरवश्य
For Private And Personal Use Only