________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दानप्रकरणम् ९] मिताक्षरासहिता। सामान्यगोदाने फलम्
यथाकथंचिद्दत्त्वा गां धेनुं वाऽधेनुमेव वा ।
अरोगामपरिक्लिष्टां दाता स्वर्गे महीयते ॥२०८ ॥ यथाकथंचिद्धेमशृङ्गाद्यभावेऽपि यथासंभवं पूर्वोक्तेन विधिना धेनुं दोग्ध्री अधेनुं वा अवन्ध्यां अरोगां रोगरहितां अपरिक्लिष्टां अत्यन्तादुर्बलां गां दत्त्वा दाता स्वर्गे महीयते पूज्यते ॥ २०८ ॥ गोदानसमान्याह
श्रान्तसंवाहनं रोगिपरिचर्या सुरार्चनम् ।
पादशौचं द्विजोच्छिष्टमार्जनं गोगदानवत् २०९ ॥ श्रान्तस्यासनशयनादिदानेन श्रमापनयनं श्रान्तसंवाहनम् । रोगिणां परिचर्या यथाशक्त्यौषधादिदानेन । सुरार्चनं हरिहरहिरण्यगर्भादीनां गन्धमाल्यादिभिराराधनम् । पादशौचं द्विजानां समानामधिकानां च । तेषामेवोच्छिष्टस्य मार्जनम् । एतान्यनन्तरोक्तेन गोदानेन समानि ॥ २०९ ॥
भूदीपाश्चान्नवस्त्राम्भस्तिलसर्पिःप्रतिश्रयान् ।
नैवेशिकं स्वर्णधुर्यं दत्त्वा स्वर्गे महीयते ॥ २१० ॥ भूः फलप्रदा । दीपा देवायतनादिषु । प्रतिश्रयः प्रवासिनामाश्रयः । निवेशनार्थ गार्हस्थ्याथै यस्कन्या दीयते तन्नैवेशिकम् । स्वर्णं सुवर्णम् । धुर्यो भारसहो बलीवर्दः । शेषं प्रसिद्धम् । एतान्भूदीपादीन्दत्वा स्वर्गलोके महीयते पूज्यते । स्वर्गफलं च भूमिदानादीनां न फलान्तरव्युदासार्थम् । मनुः (।२२९) --'यत्किंचित्कुरते पापं ज्ञानतोऽज्ञानतोऽपि वा । अपि गोचर्ममात्रेण भूमिदानेन शुद्ध्यति ॥' तथा—'वारिदस्तृप्तिमाप्नोति सुखमक्षय्यमन्नदः । तिलप्रदः प्रजामिष्टां दीपदश्चक्षुरुत्तमम् ॥ वासोदश्चन्द्रसालोक्यमश्विसालोक्यमश्वदः । अनदुद्दः श्रियं पुष्टां गोदो बध्नस्य विष्टपम् ॥' इत्यादिफलान्तरश्रवणात् । गोचर्मलक्षणं च बृहस्पतिना दर्शितम्-'सप्तहस्तेन दण्डेन त्रिंशद्दण्डं निवर्तनम् । दश तान्येव गोचर्म दत्त्वा स्वर्गे महीयते ॥' इति ॥ २१० ॥
गृहधान्याभयोपानच्छत्रमाल्यानुलेपनम् ।
यानं वृक्षं प्रियं शय्यां दत्त्वात्यन्तं सुखी भवेत् ।। २११॥ गृहं प्रसिद्धम् । धान्यानि च शालीगोधूमादी नि । अभयं भीतत्राणम् । उपानहौ । छन्त्रम् । माल्यं मल्लिकादेः । अनुलेपनं कुङ्कुमचन्दनादि । यानं रथादि । वृक्षमुपजीव्यमाम्रादिकम् । प्रियं यद्यस्य प्रियं धर्मादिकम् । शय्यां च दत्वात्यन्तमतिशयेन सुखी भवति । नच हिरण्यादिवद्धस्ते दातुमशक्यत्वाद्धर्मस्य दाना१ भूः कृषिफलप्रदा ग. २ भारवाहो ग. ३ चर्मादीनामसंभवः ख.
For Private And Personal Use Only