________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५ ] मिताक्षरासहिता । ४८३ पराकमाह
द्वादशाहोपवासेन पराकः परिकीर्तितः॥ ३२० ॥ ऋज्वर्थोऽयमर्धश्लोकः ॥ ३२० ॥ सौम्यकृच्छ्रमाह
पिण्याकाचामतकाम्बुसक्तूनां प्रतिवासरम् ।
एकरात्रोपवासश्च कृच्छ्र: सौम्योऽयमुच्यते ॥ ३२१॥ पिण्याको निःसृततैलस्तिलओदननिस्रावोदश्विदुदकसक्तूनां पञ्चानामेकैकं प्रतिदिवसमुपभुज्य षष्ठेऽह्नि उपवसेदेष सौम्याख्यः कृच्छ्रोऽभिधीयते । द्रव्यपरिमाणं तु प्राणयात्रामात्रनिबन्धनमधिगन्तव्यम् । जाबालेन तु चतुरहापी सौम्यकृच्छ्र उक्तः-'पिण्याकं सक्तवस्तकं चतुर्थेऽहन्यभोजनम् । वासो वै दक्षिणां दद्यात्सौम्योऽयं कृच्छ्र उच्यते ॥' इति ॥ ३२१ ॥ तुलापुरुषाख्यं कृच्छ्रमाह
एषां त्रिरात्रमभ्यासादेकैकस्य यथांक्रमम् ।
तुलापुरुष इत्येष ज्ञेयः पञ्चदशाहिकः ॥ ३२२॥ एषां पिण्याकादीनां पञ्चानां क्रमेणैकैकस्य त्रिरात्राभ्यासेन पञ्चदशाहव्यापी तुलापुरुषाख्यः कृच्छ्रो वेदितव्यः । अत्र च पञ्चदशाहिकत्वविधानादुपवासस्य निवृत्तिः ॥ यमेन त्वेकविंशतिरात्रिकस्तुलापुरुष उक्तः-'आचाममथ पिण्याकं तक्रं चोदकसक्तुकान् । ज्यहं व्यहं प्रयुञ्जानो वायुभक्षी व्यहद्वयम् ॥ एकविंशतिरावस्तु तुलापुरुष उच्यते ॥' इति । अत्र हारीताधुक्तेतिकर्तव्यता ग्रन्थगौरवमयान लिख्यते ॥ ३२२॥ चान्द्रायणमाह
तिथिवृद्ध्या चरेत्पिण्डान् शुक्ले शिख्यण्डसंमितान् ।
एकैकं हासयेत्कृष्णे पिण्डं चान्द्रायणं चरन् ।। ३२३॥ चान्द्रायणाख्यं वैतं कुर्वन् मयूराण्डपरिमितान् पिण्डान् शुक्ले आपूर्यमाणपक्षे तिथिवृद्ध्या चरेत् भक्षयेत् । यथा प्रतिपत्प्रभृतिषु चन्द्रकलानामेकैकशो वृद्धिरर्धमासे तद्वत्पिण्डानपि प्रतिपद्येको द्वितीयायां द्वावित्येवमेकैकशो वर्धयन् भक्षयेद्यावत्पौर्णमासी । ततः पञ्चदश्यां पञ्चदश ग्रासान्भुक्त्वा ततः कृष्णपक्षे चतुर्दश प्रतिपदि द्वितीयायां त्रयोदशेत्येवमेकैकशो ग्रासान् ह्रासयननीयाद्या. वञ्चतुर्दशी । ततश्चतुर्दश्यामेकं प्रासं ग्रसित्वा इन्दुक्षयेऽर्थादुपवसेत् । तथाच वसिष्ठः-'एकैकं वर्धयेत्पिण्डं शुक्ले कृष्णे च ह्रासयेत् । इन्दुक्षये न भुञ्जीत एष चान्द्रायणो विधिः ॥' इति । चन्द्रस्यायनमिवायनं चरणं यस्मिन्कर्मणि हासवृद्धिभ्यां तच्चान्द्रायणम् । संज्ञायां दीर्घः । इदं च यववत्प्रान्तयोरणीयो मध्ये स्थवीय इति यवमध्यमिति कथ्यते । एतदेव व्रतं यदा कृष्णपक्षप्रति१ मुपयुज्य ख. २ यथाविधि ङ. ३ कर्म कुर्वन् ङ.
For Private And Personal Use Only