________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यतिधर्मप्रकरणम् ४ ]
मिताक्षरासहिता ।
३४३
दाम् । आदिग्रहणात्सुषिरत्वं विविक्ततां च । - ' आकाशाच्छन्दं श्रोत्रं विविततां सर्वच्छिद्रसमूहांश्च' इति गर्भोपनिषद्दर्शनात् पवनात्स्पर्शेन्द्रियम् । चेष्टां गमनागमनादिकाम् । व्यूहनमङ्गानां विविधं प्रसारणम् । रौक्ष्यं कर्कशत्वं चशब्दात्स्पर्श च । पित्तात्तेजसो दर्शनं चक्षुरिन्द्रियम् । पक्तिं भुक्तस्यान्नस्य पचनम् । औष्ण्यमुष्णस्पर्शत्वमङ्गानाम् । रूपं इयामिकादि । प्रकाशितां भ्राजि - ष्णुतां । तथा संतापामर्षादि च । - ' शौर्यामर्षतैक्ष्ण्यपत्तयौष्ण्य भ्राजिष्णुता संतापवर्णरूपेन्द्रियाणि तैजसानि ' इति गर्भोपनिषद्दर्शनात् । एवं रसादुदकाद्वसनेन्द्रियम् । शैत्यमङ्गानां स्निग्धताम्। मृदुत्वसहितं वेदमाताम् । तथा भूमेगन्धं घ्राणेन्द्रियं गरिमाणं मूर्तिं च । सर्वमेतत्परमार्थतो जन्मरहितोऽप्यात्मा तृतीये मासि गृह्णाति । ततश्चतुर्थे मासि स्पन्दते चलति । तथा शारीरके'तस्माच्चतुर्थे मासि चलनादावभिप्रायं करोति' इति ॥ ७६ ॥ ७७ ॥ ७८ ॥
I
दौहृदस्याप्रदानेन गर्भो दोषमवाप्नुयात् ।
वैरूप्यं मरणं वापि तस्मात्कार्य प्रियं स्त्रियाः ॥ ७९ ॥
किंच । गर्भस्यैकं हृदयं गर्भिण्याश्चापरमित्येवं द्विहृदया तस्याः स्त्रिया यदभिलषितं तत् द्वैौहृदं तस्याप्रदानेन गर्भो विरूपतां मरणरूपं वा दोषं प्राप्नोति । तस्मात्तद्दोषपरिहारार्थ गर्भपुष्ट्यर्थं च गर्भिण्याः स्त्रियाः यत्प्रियमभिलषितं तत्संपादनीयम् । तथाच सुश्रुते - द्विहृदयां नारीं दौहृदिनीमाचक्षते तदभिलषितं दद्यात् वीर्यवन्तं चिरायुषं पुत्रं जनयति' इति । तथाच व्यायामादिकमपि गर्भग्रहणप्रभृति तथा परिहरणीयम् । ततः प्रभृति व्यायामव्यवायातितर्पणदिवास्वमरात्रि जागरणशोकभययानारोहणवेगधारण कुक्कुटासनशोणितमोक्षणानि परिहरेत्' इति तत्रैवाभिधानात् । गर्भग्रहणं च श्रमादिभिर्लिङ्गैरवगन्तव्यम् । 'सद्यो गृहीत गर्भायाः श्रमो ग्लानिः पिपासा सक्थेिंसीदनं शुक्रशोणितयोरेवबन्धः स्फुरणं च योनेः' इत्यादि तत्रैवोक्तम् ॥ ७९ ॥
स्थैर्यं चतुर्थे खङ्गानां पञ्चमे शोणितोद्भवः ।
पठे बलस्य वर्णस्य नखरोम्णां च संभवः ॥ ८० ॥
किंच | तृतीये मासि प्रादुर्भूतस्याङ्गसङ्घस्य चतुर्थे मासि स्थैर्ये स्थेमा भवति । पञ्चमे लोहितस्योद्भव उत्पत्तिः । तथा षष्ठे बलस्य वर्णस्य कररुहरोम्णां च संभवः ॥ ८० ॥
मनश्चैतन्ययुक्तोऽसौ नाडीना युशिरायुतः ।
सप्तमे चाष्टमे चैव त्वमांसस्मृतिमानपि ॥ ८१ ॥
किंच । असौ पूर्वोक्तो गर्भः सप्तमे मासि मनसा चेतसा चेतनया च युक्तो
1
१ दोहदस्याप्रदानेन ङ. २ द्विहृदयायाः स्त्रिया. ङ. २ दोहदम् ङ. ४ सक्थिसादनंः ङ. ५ रनुबन्धः ङ.
या० ३२
For Private And Personal Use Only