________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः। [आचाराध्यायः दण्डो बामणस्वेत्येवमादिः । गुणधर्मः शास्त्रीयाभिषेकादिगुणयुक्तस्य राज्ञः प्रजापरिपालनादिः। लिमित्तधर्मो विहिताकरमप्रतिनिखसेचननिमित्तं प्रायश्चित्तम् । साधारणधर्मोऽहिंसादिः । 'न हिंस्यात्सा भूतानी'त्याचण्डालं साधारणो धर्मः। 'शौचाचारांश्च शिक्षये दित्याचार्यकरणविधिप्रयुक्तत्वाद्धर्मशास्त्राध्ययनस्य प्रयोजनादिकथनं नातीवोपयुज्यते । तत्र चायं क्रमः । प्रागुपनयनारकामचारकामवादकामभक्षाः । ऊर्ध्वमुपनयनात्प्राग्वेदाध्ययनोपक्रमाद्धर्मशास्त्राध्ययनं, ततो धर्मशास्त्रविहितयमनियमोपेतस्य वेदाध्ययनं, ततस्तदर्थ जिज्ञासा, ततस्तदर्थानुष्ठानमिति । तत्र यद्यपि धर्मार्थकाममोक्षाः शास्त्रेणानेन प्रतिपाद्यन्ते तथापि धर्मस्य प्राधान्याद्धर्मग्रहणम् । प्राधान्यं च धर्ममूलत्वादितरेषाम् । नच वकव्यं धर्ममूलोऽर्थोऽर्थमूलो धर्म इत्यविशेष इति । यतोऽर्थमन्तरेणापि जपतपस्तीर्थयात्रादिना धर्मनिष्पत्तिरर्थलेशोऽपि न धर्ममन्तरेणेति । एवं काममोक्षावपीति ॥२॥ एवं पृष्टः किमुवाचेत्याह
मिथिलास्थः स योगीन्द्रः क्षणं ध्यात्वाब्रवीन्मुनीन् ।
यमिन्देशे मृगः कृष्णस्तसिन्धर्मानिबोधत ॥ २॥ मिथिलानाम नगरी तत्रावस्थितः स याज्ञवल्क्यो योगीश्वरः क्षणं ध्यात्वा केचित्कालं मनः समाधाय एते श्रवणाधिकारिणो विनयेन पृच्छन्तीति युक्तमेतेभ्यो वक्तुमित्युक्तवान्मुनीन् । किम् । यस्मिन्देशे मृगः कृष्णस्तस्मिन्धर्मान्नि. बोधतेति । कृष्णसारो मृगो यस्मिन्देशे स्वच्छन्दं विहरति तस्सिन्देशे वक्ष्यमाणलक्षणा धर्मा अनुष्ठेया नान्यत्रेत्यभिप्रायः ॥२॥
'शौचाचारांश्च शिक्षये' दित्याचार्यस्य धर्मशास्त्राध्यापनविधिः । शिष्येण तदध्ययनं कर्तव्यमिति कुतोऽवगम्यत इत्यत आह
पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः।
वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ॥ ३ ॥ पुराणं ब्राह्मादि । न्यायस्तर्कविद्या । मीमांसा वेदवाक्यविचारः । धर्मशास्त्रं मानवादि । अङ्गानि व्याकरणादीनि षट् । एतैरुपेताश्चत्वारो वेदाः । विद्याः पुरुषार्थसाधनानि । तासां स्थानानि च चतुर्दश । धर्मस्य च चतुर्दश स्थानानि हेतवः । एतानि च त्रैवर्णिकैरध्येतव्यानि तदन्तर्भूतत्वाद्धर्मशास्त्रमप्यध्येतव्यम् । तत्रैतानि ब्राह्मणेन विद्याप्राप्तये धर्मानुष्ठानाय चाधिगन्तव्यानि । क्षत्रियवैश्याभ्यां धर्मानुष्ठानाय । तथाच शङ्केन विद्यास्थानान्युपक्रम्योक्तम्'एतानि ब्राह्मणोऽधिकुरुते सच वृत्तिं दर्शयतीतरेषाम्' इति । मनुरपि द्विजा
१ अयमेव पाठो युक्तः । सर्वभूतानि इति ख. पाठः. २ श्रुत्युक्तशौचाचारान् ख. ३ जपतीर्थयात्रा क. ख. ४ पुरुषार्थज्ञानानि क. पुरुषार्थसाधनशानानि ख. ५ तदन्तर्गतत्वात् क. ६ तत्र ब्राह्मणेनैतानि क.
For Private And Personal Use Only