________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्तेयप्रकरणम् २३] मिताक्षरासहिता ।
२८१ दस्मरणात् ॥ यः पुनः प्रथमसाहसः क्षुद्रव्येषु शतावरः पञ्चशतपर्यन्तोऽसौ माषमूल्ये तदधिकमूल्ये वा यथायोग्य व्यवस्थापनीयः ॥ यत् पुनर्मानवं क्षुद्गद्रव्यगोचरवचनं तन्मूल्याद्विगुणो दम इति तदल्पग्रयोजनशरावादिविषयम् । तथापराधगुरुत्वादपि दण्डत्वम् । यथा--'संधि भित्त्वा तु ये चौर्य रात्री कुर्वति तस्कराः । तेषां छित्त्वा नृपो हस्तौ तीक्ष्णशूले निवेशयेत् ॥' इत्येवं सर्वेषामानन्त्यात्प्रतिद्रव्यं वक्तुमशक्तेर्जातिपरिमाणादिभिः कारणैर्दण्डगुरुलधुभावः कल्पनीयः । पथिकादीनां पुनरल्पापराधे न दण्डः । यथाह मनुः (३४३) -'द्विजोऽध्वगः क्षीणवृत्तिभविष द्वे च मूलके । आददानः परक्षेत्रान्न दण्डं दातुमर्हति ॥' तथा-'चणकबीहिगोधूमयवानां मुद्गमाषयोः । अनिषिद्धगृहीतंव्यो मुष्टिरेकः पथि स्थितैः । तथैव सप्तमे भक्तं भक्तानि पडनश्नता । अश्वस्तनविधानेन हर्तव्यं हीनकर्मणः ॥' इति ॥ २७५ ॥ अचौरस्यापि चौरोपकारिणो दण्डमाह
भक्तावकाशाश्युदकमत्रोपकरणव्ययान् ।
दवा चौरस्य वा हन्तु नतो दम उत्तमः ॥ २७६ ॥ भक्तमशनम् । अवकाशो निवासस्थानम् । अग्निश्चौरस्य शीतापनोदाद्यर्थः । उदकं तृषितस्य । मन्त्रश्चौर्यप्रकारोपदेशः । उपकरणं चौर्यसाधनम् । व्ययः अपहारार्थ देशान्तरं गच्छतः पाथेयम् । एतानि चौरस्य हन्तुर्वा दुष्टत्वं जानन्नपि यः प्रयच्छति तस्योत्तमसाहसो दण्डः । चौरोपेक्षिणामपि दोषः-शक्ताश्च य उपेक्षन्ते तेऽपि तद्दोषभागिनः।' इति नारदस्मरणात् ॥ २७६ ॥
शस्त्रावपाते गर्भस्य पातने चोत्तमो दमः ।
उत्तमो वाधमो वापि पुरुषस्त्रीप्रमापणे ॥ २७७ ॥ किंच । परगात्रेषु शस्त्रस्यावपातने दासीब्राह्मणगर्भव्यतिरेकेण गर्भस्य पातने चोत्तमो दमो दण्डः । दासीगर्भनिपातने तु दासीगर्भविनाशकृदित्यादिना शततदण्डोऽभिहितः । ब्राह्मणगर्भविनाशे तु 'हत्वा गर्भमविज्ञातम्' इत्यत्र ब्रह्महत्यातिदेशं वक्ष्यते । पुरुषस्य स्त्रियाश्च प्रमापणे शीलवृत्ताद्यपेक्षयोत्तमो वाधमो वा दण्डो व्यवस्थितो वेदितव्यः ॥ २७७ ॥
विप्रदुष्टां स्त्रियं चैव पुरुषघ्नीमगर्भिणीम् ।
सेतुभेदकरी चाप्सु शिलां बद्धवा प्रवेशयेत् ॥ २७८ ॥ अपिच । विशेषेण प्रदुष्टा विप्रदुष्टा भ्रूणघ्नी स्वगर्भपातिनी च । या च पुरुपस्य हन्त्री सेतूनां भेत्री च एता गर्भरहिताः स्त्रीर्गले शिलां बवा अप्सु प्रवेशयेत् यथा न प्लवन्ति ॥ २७८ ॥
-
१ गृहीतव्या मुष्टिरेका घ. २ वक्ष्यति ख-ध.
For Private And Personal Use Only