________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६७
साहसप्रकरणम् २०] मिताक्षरासहिता ।
ताडयति तथा संदिष्टस्य प्रतिश्रुतस्यार्थस्याप्रदाता यश्च मुद्रितं गृहसुद्घाटयति तथा स्वगृहे क्षेत्रादिसंसक्तगृह क्षेत्रादिस्वामिनां कुलिकानां स्वकुलोद्भवानां आदिग्रहणात्स्व ग्राम्य स्वदेशीयानां च योऽपकर्ता ते सर्वे पञ्चाशत्पणपरिमितेन दण्डनीयाः ॥ २३२ ॥ २३३ ॥
स्वच्छन्दं विधवागामी विक्रुष्टे नाभिधावकः । अकारणे च विक्रोष्टा चण्डालवोत्तमान्स्पृशेत् ॥ २३४ ॥ शूद्रः प्रव्रजितानां च दैवे पित्र्ये च भोजकः । अयुक्तं शपथं कुर्वन्नयोग्यो योग्यकर्मकृत् ॥ २३५ ॥ वृपक्षुद्रपशूनां च पुंस्त्वस्य प्रतिघातकृत् । साधारणस्यापलापी दासीगर्भविनाशकृत् ।। २३६ ॥ पितृपुत्रस्वभ्रातृदम्पत्याचार्यशिष्यकाः ।
एषामपतितान्योन्यत्यागी च शतदण्डभाक् || २३७ ॥
किंच | नियोगं विना यः स्वेच्छया विधवां गच्छति । चौरादिभयाकुलैर्विकुष्टे च यः शक्तोsपि नाभिधावति । यश्च वृथाकोशं करोति । यश्च चण्डालो ब्राह्मणादीन्स्पृशति । यश्च शूदाः प्रव्रजितादिगम्बरादीन्दैवे पित्र्ये च कर्मणि भोजयति । यश्चायुक्तं मातरं गमिष्यामीत्येवं शपथं करोति । तथा यश्च अयोग्य एव शूद्रादियोग्यकर्माध्ययनादि करोति । वृषो बलीवर्दः क्षुद्रपशवोऽजादयस्तेषां पुंस्त्वस्य प्रजननशक्तेर्विनाशकः । वृक्षक्षुद्रपशूनामिति पाठे हिंग्वाद्यौषधयोगेन वृक्षादेः फलप्रसूनानां पातयिता । साधारणमपलपति साधारणद्रव्यस्य च वञ्चकः । दासीगर्भस्य च पातयिता । ये च पित्रादयोऽपतिता एव सन्तोऽन्योन्यं त्यजन्ति ते सर्वे प्रत्येकं पणशतं दण्डार्हा भवन्ति ॥ २३४ ॥ ॥ २३५ ॥ २३६ ॥ २३७ ॥ इति साहसप्रकरणम् ॥ साहसप्रसङ्गात्तत्सदृशापराधेषु निर्णेजकादीनां दण्डमाहवसानस्त्रीन्पणान्दण्ड्यो नेजकस्तु परांशुकम् । विक्रयावक्रयाधानयाचितेषु पणान्दश || २३८ ॥
जको वस्त्रस्य धावकः स यदि निर्णेजनार्थं समर्पितानि वासांसि स्वयमाच्छादयति तदासौ पणत्रयं दण्ड्यः । यः पुनस्तानि विक्रीणीते अवक्रयं वा एतावत्कालमुपभोगार्थं वस्त्रं दीयते मह्यमेतावद्धनं देयमित्येवं भाटकेन यो ददाति आधित्वं वा नयति स्वसुहृयो याचितं वा ददात्यसौ प्रत्यपराधं दशपणान्दण्डनीयः । तानि च वस्त्राणि श्लक्ष्णशाल्मलीफलके क्षालनीयानि न पाषाणे, नच व्यत्यसनीयानि, नच स्वगृहे वासयितव्यानि इतरथा दण्ड्यः ।
१ शूद्रप्रत्रजितानां ख. २ ग्रहीष्यामीत्येवं ख. ३ शाल्मले फलके ख.
For Private And Personal Use Only