________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir_
दायविभागप्रकरणम् ८ ] मिताक्षरासहिता ।
२२१ वंचनादनाशङ्कितव्यभिचारायाः सकलधनग्रहणं गम्यते । एतदेवाभिप्रेत्योक्तं शछैन 'ज्येष्ठा वा पत्नी' इति । ज्येष्टा गुणज्येष्ठा अनाशङ्कितव्यभिचारा, सा सकलं धनं गृहीत्वान्यां कर्कशामपि मातृवत्पालयतीति सर्वमनवद्यम् । तस्मादपुत्रस्य स्वर्यातस्य विभक्तस्यासंसृष्टिनो धनं परिणीता स्त्री संयता सकलमेव गृह्णातीति स्थितम् ।
तदभावे दुहितरः। दुहितर इति बहुवचनं समानजातीयानामसमानजातीयानां च समविषमांशप्राप्त्यर्थम् । तथाच कात्यायन:-'पत्नी भर्तुर्धनहरी या स्यादव्यभिचारिणी । तदभावे तु दुहिता यद्यनूढा भवेत्तदा ॥' इति । वृहस्पतिरपि-'भर्तुर्धनहरी पत्नी तां विना दुहिता स्मृता । अङ्गादङ्गारसंभवति पुत्रवहुहिता नृणाम् ॥ तस्मात्पितृधनं त्वन्यः कथं गृह्णीत मानवः ॥' इति । तत्र चोढानूढासमवायेऽनूढैव गृह्णाति । 'तदभावे तु दुहिता यद्यनूढा भवेत्तदा' इति विशेषस्मरणात् । तथा प्रतिष्ठिताप्रतिष्ठितानां समवाये अप्रतिष्ठितैव तदभावे प्रतिष्ठिता।-स्त्रीधेनं दुहितॄणामप्रत्तानामप्रतिष्टितानां च' इति गौतमवचनस्य पितृधनेऽपि समानत्वात् । न चैतत्पुत्रिकाविषयमिति मन्तव्यम् । तत्समः पुत्रिकासुत इति पुत्रिकायास्तत्सुतस्य चौरससमत्वेन पुत्रप्रकरणेऽभिधानात् । चशब्दादुहिनभावे दौहित्रो धनभाक् । यथाह विष्णुः-- 'अपुत्रपौत्रसंताने दौहित्रा धनमामुयुः । पूर्वेषां तु स्वधाकारे पौत्रा दौहित्रिका मताः ॥' इति मनुरपि (९।१३६)-'अकृता वा कृता वापि
यं विन्देत्सदृशात्सुतम् । पौत्री मातामहस्तेन दद्यापिण्डं हरेद्धनम् ॥' इति ॥ . तदभावे पितरौ मातापितरौ धनभाजौ । यद्यपि युगपदधिकरणवचनतायां द्वन्द्वस्मरणात् तदपवादत्वादेकशेषस्य धनग्रहणे पित्रोः क्रमो न प्रतीयते तथापि विग्रहवाक्ये मातृशब्दस्य पूर्वनिपातादेकोषाभावपक्षे च मातापितराविति मा. तृशब्दस्य पूर्व श्रवणात् पाठक्रमादेवार्थक्रमावगमाद्धनसंबन्धेऽपि क्रमापेक्षायां
१ वचनादशङ्कित ख. २ अप्रतिष्ठिता अनपत्या निर्धना वा. ३ स्त्रीपदं पितुरप्युपलक्षकमिति संप्रदायविदः. ४ अकृतेति । अकृता वा कृता वेति पुत्रिकाया एव द्वैविध्यं, तत्र 'यदपत्यं भवेदस्यां तन्मम स्यात्स्वधाकरं' इत्यभिधाय कन्यादानकाले वरानुमत्या या क्रियते सा कृता, अभिसंधिमात्रकृता वाग्व्यवहारेण न कृता अकृता इत्यादि कुळूकः. अक्षता वा क्षता वापि ग. ५ व्यवहारमयूखे-दौहित्राभावे पिता तदभावे माता । तथाच कात्यायनः-'अपुत्रस्याप्यकुलजा पत्नी दुहितरोऽपि वा । तदभावे पिता माता भ्राता पुत्राः प्रकीर्तिताः' । विष्णुश्च-'अ. पुत्र धनं पत्यभिगामि, तदभावे दुहितृगामि, तदभावे दौहित्रगामि, तदभावे पितृगामि, तदभावे मातृगामि, तदभावे भ्रातृगामि, तदभावे भ्रातपुत्रगामि, तदभावे सकुल्यगामि, इति । यत्तु विज्ञानेश्वरः-'द्वन्द्वापवादके पितरावित्येकशेषे क्रमाप्रतीतावपि तदर्थबोधके विग्रहवाक्ये मातृशब्दस्य पूर्वनिपातात् अपवाद्यद्वन्द्वात्क्रमानुसारात् पितुः पुत्रान्तरसाधारण्यात् मातुस्त्वसाधारण्याच्चादौ मातुस्तदभावे पितुर्धनग्रहणमूचे तदेतद्वचोविरोधादपास्तम् । विग्रहवाक्ये मातृशब्दस्य पूर्वनिपात एकशेपस्य द्वन्द्ववैकल्पिकत्वेन तदपवादत्वे साधारण्यासाधारण्ययोः क्रमनियामकत्वे मानाभावाच्च.
For Private And Personal Use Only