________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दिव्यप्रकरणम् ७ ] मिताक्षरासहिता।' नस्थितः पूर्वमुक्तमिषुमानीय जले निमनाङ्गं यदि पश्यति तदा स शुद्धो भवति । एतदुक्तं भवति-त्रिषु शरेषु मुक्तेष्वेको वेगवान्मध्यमशरपात. स्थानं गत्वा तमादाय तत्रैव तिष्ठति । अन्यस्तु पुरुषो वेगवान् शरमोक्षस्थाने तोरणमूले तिष्ठति । एवं स्थितयोस्तृतीयस्यां करतालिकायां शोध्यो निमजति । तत्समकालमेव तोरणमूलस्थितोऽपि द्रुततरं मध्यशरपातस्थानं गच्छति । शरग्राही च तस्मिन्प्राप्ते द्रुततरं तोरणमूलं प्राप्यान्त लगतं यदि न पश्यति तदा शुद्धो भवतीति । एतदेव स्पष्टीकृतं पितामहेन-गन्तुश्चापि च कर्तुश्च समं गमनमजनम् । गच्छेत्तोरणमूलात्तु लक्ष्यस्थानं जवी नरः ॥ तस्मिन्गते द्वितीयोऽपि वेगादादाय सायकम् । गच्छेत्तोरणमूलं तु यतः स पुरुषो गतः ॥ आगतस्तु शरमाही न पश्यति यदा जले । अन्तर्जलगतं सम्यक्तदा शुद्धं विनिर्दिशेत् ॥' इति ॥ जविनोश्च पुरुषयोर्निर्धारणं कृतं नारदेन-'पञ्चाशतो धावकानां यो सातामधिको जवे । तौ च तत्र नियोकव्यौ शरानयनकारणात् ॥' इति । तोरणं च निमजनसमीपस्थाने समे शोध्यकर्णप्रमाणोच्छ्रितं कार्यम् ।'गत्वा तु तजलस्थानं तटे तोरणमुच्छ्रितम् । कुर्वीत कर्णमात्रं तु भूमिभागे समे शुचौ ॥' इति नारदस्मरणात् । शरत्रयं वैणवं च धनुर्मङ्गलद्रव्यैः श्वेतपुष्पादिमिः प्रथमं संपूजयेत् । -'शरान्संपूजयेत्पूर्व वैणवं च धनुस्तथा। मङ्गलैधूपपुष्पैश्च ततः कर्म समाचरेत् ॥' इति पितामहवचनात् । धनुषः प्रमाणं लक्ष्यस्थानं च नारदेनोक्तम्-'क्रूरं धनुः सप्तशतं मध्यमं षट्शतं स्मृतम् । मन्दं पञ्चशतं ज्ञेयमेष शेयो धनुर्विधिः ॥ मध्यमेन तु चापेन प्रक्षिपेच शरत्रयम् । हस्तानां तु पते सार्धे लक्ष्यं कृत्वा विचक्षणः ॥ न्यूनाधिके तु दोषः स्याक्षिपतः सायकांस्तथा ॥' इति । मङ्गलानां सताधिकं शतं सप्तशतं क्रूरं धनुः। एवं षट्शतं पञ्चशतं । एवं चैकादशाङ्गुलाधिकं हस्तचतुष्टयं क्रूरस्य धनुषः प्रमाणम् , मध्यमस्य दशाङ्गुलाधिकम् , मन्दस्य नवाङ्गुलाधिकमित्युक्तं भवति । शराश्वानायसामा वैणवाः कार्याः।-शरांश्चानायसानांस्तु प्रकुर्वीत विशुद्धये । वेणुकाण्डमयांश्चैव क्षेप्ता तु सुदृढं क्षिपेत् ॥' इति स्मरणात् । क्षेप्ता क्षत्रियस्तबृत्तिर्वा ब्राह्मणः सोपवासो नियोक्तव्यः । यथाह-क्षेता च क्षत्रियः प्रोक्तस्त. दृत्तिाह्मणोऽपि वा । अक्रूरहृदयः शान्तः सोपवासस्ततः क्षिपेत् ॥' इति । त्रिषु मुक्तेषु मध्यमः शरो ग्राह्यः-'तेषां च प्रोषितानां च शराणां शास्त्रचोद. नात् । मध्यमस्तु शरो ग्राह्यः पुरुषेण बलीयसा ॥' इति वचनात् । तत्रापि पतनस्थानादानेतव्यो न सर्पणस्थानात् । 'शरस्य पतनं ग्राह्यं सर्पणं तु विवर्जयेत् । सर्पन्सर्पन्शरो यायाराहरतरं यतः॥' इति वचनात् । वाते च प्रवायति विषमादिदेशे च शरमोक्षो न कर्तव्यः।-'इषु न प्रक्षिपेद्विद्वान्मारुते चातिवायति । विषमे भूप्रदेशे च वृक्षस्थानसमाकुले ॥ तृणगुल्मलतावल्लीपङ्कपाषाण
१ तदा शुद्धो ग. घ. २ स्थितयोस्तयोस्तृतीय ख. ३ मध्यमशर ग. ४ तदा शुद्धि ख. ५ प्रक्षिप्तानां च ग. ६ च प्रवायति ग.
For Private And Personal Use Only