________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५८
याज्ञवल्क्यस्मृतिः।
[व्यवहाराध्यायः
हिरण्यद्वैगुण्यवत्कालानादरेणैव स्त्रीपश्चादयः प्रतिपादितवृद्ध्या दाप्याः । श्लोकस्तु व्याख्यात एव । यस्य द्रव्यस्य यावती वृद्धिः पराकाष्ठोक्ता तद्रव्यं प्र. तिभूदत्तं खादकेन तया वृद्ध्या सह कालविशेषमनपेक्ष्यैव सद्यो दातव्यमिति तात्पर्यार्थः । यदा तु दर्शनप्रतिभूः संप्रतिपने काले अधमणं दर्शयितुमसमर्थ. स्तदा तेद्वेषगाय तस्य पक्षत्रयं दातव्यम् । तत्र यदि तं दर्शयति तदा भोक्तव्योऽन्यथा प्रस्तुतं धनं दाप्यः । -'नष्टस्यान्वेषणार्थं तु दाप्यं पक्षत्रयं परम् । यद्यसौ दर्शयेत्तत्र मोक्तव्यः प्रतिभूर्भवेत् ॥ काले व्यतीते प्रतिभूर्यदि तं नैव दर्शयेत् । निबन्धं दापयेत्तं तु प्रेते चैष विधिः स्मृतः ॥' इति कात्यायनवचनात् । लेग्नके विशेषनिषेधश्च तेनैवोक्तः-'न स्वामी न च वै शत्रुः स्वामिनाधिकृतस्तथा । निरुद्धो दण्डितश्चैव संदिग्धश्चैव न कचित् ॥ नैव रिक्थी न मित्रं च न चैवात्यन्तवासिनः । राजकार्यनियुक्ताश्च ये च प्रव्रजिता नराः ॥ न शक्तो धनिने दातुं दण्डं राज्ञे च तत्समम् । जीवन्वापि पिता यस्य तथैवेच्छा. प्रवर्तकः ॥ नाविज्ञातो ग्रहीतव्यः प्रतिभूः स्वक्रियां प्रति ॥' इति । संदिधो. ऽभिशस्तः । अत्यन्तवासिनो नैष्ठिकब्रह्मचारिणः ॥ इति प्रतिभूविधिः ॥ ५७ ॥ धनप्रयोगे विश्वासहेतू द्वौ प्रतिभूराधिश्व यथाह नारदः-'
विम्भहेतू द्वा. वत्र प्रतिभूराधिरेव च' इति । तत्र प्रतिभूनिरूपितः । इदानीमाधिर्निरूप्यते । आधिर्नाम गृहीतस्य द्रव्यस्योपरि विश्वासार्थमधमणेनोत्तमोऽधिक्रियते आधीयत इत्याधिः । सच द्विविधः कृतकालोऽकृतकालश्च । पुनश्चैकैकशो द्विविधः गोप्यो भोग्यश्च । यथाह नारदः–'अधिक्रियत इत्याधिः स विज्ञेयो द्विलक्षणः । कृतकालेऽपनेयश्च यावद्देयोद्यतस्तथा ॥ स पुनर्द्विविधः प्रोक्तो गोप्यो भोग्यस्तथैव च ॥' इति । कृतकाले आधानकाल एवामुष्मिन्काले दीपोत्सवादौ मयायमाधिर्मोक्तव्योऽन्यथा तवैवाधिर्भविष्यतीत्येवं निश्चिते काले उपनेय आत्मसमीपं नेतव्यः । मोचनीय इत्यर्थः। देयं दानम् । देयमनतिक्रम्य यावद्देयम् । उद्यतः नियतः, स्थापित इत्यर्थः। यावद्देयमुद्यतो यावद्देयोद्यतः गृहीतधनप्रत्यर्पणावधिरनिरूपितकाल इत्यर्थः । गोप्यो रक्षणीयः । एवं चतुर्विधस्याधेर्विशेषमाह
आधिः प्रणश्येद्विगुणे धने यदि न मोक्ष्यते ।
काले कालकृतो नश्येत्फलभोग्यो न नश्यति ॥ ५८॥ प्रयुक्ते धने स्वकृतया वृद्ध्या कालक्रमेण द्विगुणीभूते यद्याधिरधमणेन द्रव्यदानेन न मोक्ष्यते तदा नश्यति । अधमर्णस्य धनं प्रयोक्तुः स्वं भवति । कालकृतः कृतकालः आहिताझ्यादिषु पाठात्कालशब्दस्य पूर्व निपातः । स तु काले निरूपिते प्राप्ते नश्येत् द्वैगुण्यात्मागूर्वं वा । फलभोग्यः फलं भोग्यं यस्यासौ फलभोग्यः क्षेत्रारामादिः स कदाचिदपि न नश्यति । कृतकालस्य गोप्यस्य
१ खादकेनाधमणेन. २ तदन्वेषणाय ग. ३ मोक्तव्यो नान्यथा ग. ४ दापयेत्तत्तु प्रेते चैव ख. ५ लग्नकः प्रतिभूः.६ प्रयुक्तास्तु घ.७ विश्रम्भो विश्वास. ८ निरूपिते ख. ग.
For Private And Personal Use Only