________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् दशम
उद्देशकः १७२२ (B)
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
एसोऽणुगमो भणितो, अहुणा नओ सो य होइ दुविहो उ । नाणनओ १ चरणनओर, २ तेसिं समासं तु वोच्छामि ॥ ४६७१॥
तदेवमेषोऽनुगमो भणितः। अधुना नयो वक्तव्यः, तत्र यद्यपि नयाः शतसङ्ख्यास्तथापि ते सर्वे नयद्वये अन्तर्भवति । तत आह- स नयो द्विविधो भवति-ज्ञाननयः, १ चरणनयो नाम क्रियानयः२, तयोः समासं सक्षेपं वक्ष्यामि ॥ ४६७१ ॥
तमेवाहनायम्मि गेण्हियव्वे, अगिण्हियव्वम्मि चेव अत्थम्मि । जइयव्वमेव इइ जो, सो उवदेसो नओ नाम ॥ ४६७२॥
गाथा ज्ञाते सम्यक् परिच्छिन्ने ग्रहीतव्ये उपादेये अग्रहीतव्ये अनुपादेये हेये इत्यर्थः । चशब्दः
४४६६९-४६७२
ज्ञाननयखलुभयोर्ग्रहीतव्याऽगृहीतव्ययोरनुकर्षणार्थ: उपेक्षणीयवस्तुसमुच्चयार्थो वा, एवकारस्त्ववधारणे,
चारित्रनयौ तस्य चैवं व्यवहितः प्रयोगः-ज्ञाते एव ग्रहीतव्ये अग्रहीतव्ये उपेक्षणीये च नाज्ञाते अर्थे ऐहिकाऽऽमुष्मिकरूपे। तत्र ऐहिको ग्रहीतव्यः स्रक्-चन्दनादिः, अग्रहीतव्यो विष-शस्त्र- १७२२ (B) कण्टकादिः, उपेक्षणीयस्तृणादिः । आमुष्मिको ग्रहीतव्यः सम्यग्दर्शनादिः, अग्रहीतव्यो :
For Private And Personal