________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
दशम
उद्देशकः
१६०५ (B)
www.kobatirth.org
सो उ विविंचिय दिट्ठो, संविग्गेहिं तु अन्नसाहूहिं । आसासियमणुसिट्ठो, मरणजढ पुणो वि पडिवण्णं ॥ ४२३९ ॥
Acharya Shri Kailashsagarsuri Gyanmandir
[जी. भा. ३६४]
सः प्रत्याख्यातभक्तो भक्तं याचमानोऽगीतार्थैः साधुभिः विविक्तः परित्यक्तोऽन्यैः संविग्नैः गीतार्थैः साधुभिर्दृष्टस्ततस्तैराश्वासितः, आश्वास्य च अनुशिष्टः अतिशयेन दूरमुत्साहितः, ततो यद् अभ्युद्यतमरणं त्यक्तं तत् पुनरपि तेन प्रतिपन्नम्, ततः सुगतिभागी जातः ॥
४२३९ ॥
एए अन् य तहिं, बहवे दोसा य पच्चवाया य ।
एएहिं कारणेहिं, अगीयत्थ न कप्पति परिन्ना ॥ ४२४० ॥ [ जी.भा. ३६५ ] यस्माद् एते अनन्तरोदिताः अन्ये वा अनुक्ता बहवो दोषाः प्रत्यवायाश्चागीतार्थस्य समीपे भक्तपरिज्ञाप्रतिपत्तौ । तस्मादेतैः कारणैरगीतार्थस्य समीपे परिज्ञा भक्तपरिज्ञा न कल्पते । संविग्नगीतार्थानां च समीपे बहवो गुणास्तस्मात् तन्मार्गणा कर्त्तव्या ॥ ४२४० ॥ सा च द्विधा - क्षेत्रतः कालतश्च । तत्र क्षेत्रत आह
For Private And Personal
गाथा
४२३३-४२४० अगीतार्थपार्श्वे अनशननिषेधः
| १६०५ (B)