________________
Shri Mahavir Jain Aradhana Kendra
___www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
दशम उद्देशकः
१५७९ (B)
'एवं' प्रागुक्तेन प्रकारेण भणिते चोदको भणति-व्यवच्छिन्नाः खलु ‘इह' भरतक्षेत्रे साम्प्रतमागम-व्यवहारिणः । तेषु च व्यवच्छिन्नेषु चारित्रस्य विशुद्धिर्नास्ति, सम्यक्परिज्ञानाभावतो यथावस्थित-शुद्धिदायकाभावात् । अन्यच्च मासिकं पाक्षिकमित्यादि प्रायश्चित्तं ददतोऽपि न केचिद् दृश्यन्ते, नापि केचित् तथारूपं प्रायश्चित्तं कुर्वन्तः, ततो ददतां कुर्वतां चाऽभावे सम्प्रति तीर्थं 'ज्ञान-दर्शनं' ज्ञान-दर्शनात्मकमनुवर्तते, न तु चारित्रात्मकम्, यतश्चारित्रस्य पर्यन्तसमये 'निर्यापका एव' यथावस्थितशोधिप्रदानत उत्तरोत्तरचारित्रनिर्वाहका एव व्यवच्छिन्नाः ॥ ४१४३ ।। ४१४४ ॥
सम्प्रत्येतदेव विभावयिषुः प्रथमतश्चारित्रस्य शुद्धिर्नास्तीति भावयतिचोद्दसपुव्वधराणं, वोच्छेदो केवलीण वोच्छेदे । केसिंची आदेसो,पायच्छित्तं पि वोच्छिन्नं ॥ ४१४५ ।। [जी.भा.२५६]
केवलिनां व्यवच्छेदे सति तदनन्तरं स्तोकेन कालेन चतुर्दशपूर्वधराणामपि व्यवच्छेदो भवति। ततः शोधिदायकाभावान्नास्ति शुद्धिश्चारित्रस्य। अन्यच्च केषाञ्चिदयमादेशः, यथा- | प्रायश्चित्तमपि व्यवच्छिन्नम् ॥ ४१४५ ॥ एतदेव भावयति
गाथा ४१३९-४१४५
आगमव्यवहारिस्वरूपम्
|१५७९ (B)
For Private And Personal