________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम्
अष्टम उद्देशकः १३४८ (A)
वर्षासु यदि मणिकुट्टिमायां भूमौ वसन्ति तथापि संस्तारकोऽपरिशाटिः फलकरूपोऽवश्यं गृहीतव्यस्तमगृह्णति प्रायश्चित्तं चत्वारो गुरुकास्तथा आज्ञा उपलक्षणमेतदनवस्थादयश्च दोषाः ॥ ३३९१ ।।
किं कारणम्? अत आहपाणा सीयल कुंथू, उप्पायग दीह-गोम्हि-सिसुनागे । पणए उवहि कुत्थण, मलउदकवहो अजीरादी ॥ ३३९२॥
कालस्य शीतलतया भूमौ प्राणा सम्मूर्च्छन्ति, के ते इत्याह-कुन्थवः प्रतीताः, उत्पादका || गाथा नाम ये भूमिं भित्त्वा समुत्तिष्ठन्ति। दीर्घाः सर्पास्तेभ्य आत्मविराधना, गोम्मी नाम कर्णशृगाली, ||३३९२-३३९८
संस्तारकशिशुनाग: अलसः। तथा शीतलायां भूमौ पनकः सञ्जायते, उपधावपि पनकाः सम्मूर्च्छन्ति,
ग्रहणाऽनुतथा उपधेः शीतलभूमिस्पर्शतः कोथनसम्भवः। तथा सत्रे(स्नेहधूलिलगने मलसम्भवः, ज्ञापनविधि: ततो हिण्डमानस्य वर्षे पतति उदकवधोऽप्कायविराधना, तथा उपधेर्मलिनत्वेनारतिसम्भवे
१३४८ (A) निद्राया अलाभतोऽजीर्णत्वसम्भवः, आदिग्रहणात् ततो ग्लानत्वं, तदनन्तरं चिकित्साकरणेत्यादि परिग्रहः ॥ ३३९२ ॥
For Private and Personal Use Only