________________
Shri Mahavir Jain Aradhana Kendra
܀܀܀܀܀܀
षष्ठ
उद्देशकः
www. kobatirth.org
श्री
सूत्रम्
च केषाञ्चित् पापीयसां तथापूजामाचार्यस्य दृष्ट्वा महामत्सरः, ततो मात्सर्येण संज्ञाभूमिगतमाचार्यं प्रतिचर्य छन्ने प्रदेशे मरुको ब्राह्मणः कोऽपि [ मारयेत् ]जीविताद् व्यपरोप्य गर्त्तादिषु प्रच्छन्ने व्यवहार प्रदेशे स्थगयेत् तथा खरिकामुखीं दासीं नपुंसकं वा प्रलोभ्य तत्र प्रेष्य सङ्ग्रहं कुर्यात् तथा 'मैथुनमेष सेवमानो गृहीतः ', तत उड्डाहः स्यात् । तथा अनाभोगेनाचार्यो वनादिगुपिलमवकाशं संज्ञाव्युत्सर्जनाय प्रविष्टः स्यात् तत्र च तिरिक्ख त्ति तिर्यग्योनिका गर्दभ्यादिका पूर्वागता १०७७ (B) पश्चाद्वा प्रविष्टा भवेत्, तां च केचित् प्रत्यनीका दृष्ट्वा उड्डाहं कुर्युः ॥ २५२५ ॥ मूलगाथायां यदुक्तं "तिरिक्खादी 'ति तत्रादिशब्दव्याख्यानार्थमाह
܀܀܀܀܀
आदिग्गहणा उब्भामिगा व तह अन्नतित्थिगा वा वि । अहवा व अन्नदोसा, हवंति मे वादिमादीया ॥२५२६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
आदिग्रहणात् उद्भ्रामिका कुलटा तथा अन्यतीर्थिकी वा परिगृह्यते सा तस्मिन् गहने पूर्वगता पश्चाद्वा प्रविष्टा भवेत् तत्र चाऽऽत्मपरोभयसमुत्था दोषाः सङ्ग्रहणादयश्च प्रागुक्ताः । अथवा इमे वक्ष्यमाणा अन्ये वाद्यादयो दोषा भवन्ति ॥ २५२६ ॥
For Private And Personal Use Only
गाथा |२५२२-२५२६ आचार्यस्य बहिः स्थण्डिलभूमौ गमने दोषाः
१०७७ (B)