________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
सप्तम
उद्देशकः १३१६ (A)
पेहा-वियार-झायादी, जे उ दोसा उदाहिया । अच्छंते ते भवे तत्थ, वयए भिण्णकप्पता ॥ ३२९३॥
ये दोषाः पूर्वं कल्पाध्ययने मद्योदक-धान्यशालादिषु सागारिके चोपाश्रये प्रेक्षायां | विचारभूमौ स्वाध्यायादौ वाऽभिहितास्ते तत्र शालादीनामेकदेशे तिष्ठति भवेयुः। अथैतद्दोषभयादन्यत्र व्रजति तर्हि भिन्नकल्पता दोषो मासकल्पे वर्षाकालकल्पे वा अपरिपूर्णे एव सति निर्गमात् ॥ ३२९३ ॥
सम्प्रति 'भिक्खगतेत्ति' एतद्व्याख्यानार्थमाहभिक्खं गतेसु वा तेसु, वक्कवी बेइ णीह मे।
णीणिए वावि पाले णं, उवहिस्सासिवावणा ॥ ३२९४॥ भिक्षां गतेषु [गच्छत्सु इत्यर्थः] वा तेषु साधुषु वक्रयी भाटकेन गृहीतशालादिको ब्रूते- | यथा निर्गच्छत यूयं मम गृहात् तदा भिक्षाटनव्याघातः । तत्कालमन्यवसत्यलाभे जनगरे । सूत्रार्थव्याघातश्च। अथवा तेषु भिक्षां गतेषु पश्चादागत्य वसतिपालं निष्काशयति, तस्मिन्
गाथा ३२९३-३३०० वक्रयगृहादौ
वसने
दोषाः
१३१६ (A)
For Private And Personal Use Only