________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् षष्ठ उद्देशकः १०९४ (AJM
गतं गणचिन्ताद्वारम्। अधुना वादिद्वारमाहसोऊण गतं खिंसति, पडिच्छ उव्वात वादि पेल्लेइ । अच्छंति सत्थचित्ते न होंति दोसा तवादीया ॥ २५७७॥ दारं १०। भिक्षामटितुं प्रवृत्ते आचार्ये वादी कोऽपि समागतस्तेन साधवः पृष्टाः 'क्व आचार्यः' ? साधुभिरुक्तं- 'भिक्षाटनाय गतः। ततः स भिक्षार्थं गतं श्रुत्वा खिंसति हीलयतिएतावत्तस्य पाण्डित्यं यः स्वयं भिक्षामटति। ततः क्षणमात्रं प्रतीक्षितः, स चाऽऽचार्य उद्धान्तः परिश्रान्तः समागतः, तं समागतं दृष्ट्वा वादी प्रेरयति स च परिश्रान्तत्वादुत्तरं दातुमसमर्थः । तिष्ठति पुनः स्वस्थचित्ते दोषास्तापादयः, आदिशब्दात् तृषितत्वादिपरिग्रहो न भवन्ति तथा च सति न वादिना तस्य प्रेरणं किन्तु जय इति ॥ २५७७॥
वादी समागतो भिक्षार्थं गत इति श्रुत्वा यदवादीत् तदुपदर्शयतिपागडियं माहाप्पं, विण्णाणं चेव सुट्ट भे गुरुणो । जइ सो विजाणमाणो, न वि तुब्भमणाढितो होता ॥ २५७८॥
.y
गाथा २५७७-२५८३ | आचार्यस्य भिक्षार्थमगमने
गुणाः
ॐ
४१०९४ (A)
For Private And Personal Use Only