________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
युवतिकमनीयरूपतयाऽलीकदोषसम्भवेन अन्यथा वा बद्धं रुद्धं वा नर्त्तनं नटानां नायकं कुशिता मोचयितुमसमर्थास्तेषां तादृक्शक्त्यभावात्, स पुनर्युवतिकमनीयरूपस्तान् कुसितान् सर्वानपि केनापि दोषेण बद्धान् रुद्धान् वा मोचयितुं शक्तस्ततो यथा स प्रयत्नेन रक्ष्यते, एवमाचार्योऽपि रक्षणीयोऽन्यथा दोषः ॥ २५७३ ॥
सूत्रम्
षष्ठ उद्देशकः १०९३ (A)
तथा चाहएमेवायरियस्स वि, दोसा पडिरूववं च सो होइ । दिज विसं भिक्खुवासो, अभिजोग्गवसीकरणमादी ॥ २५७४॥
एवमेव नर्तनस्येवाऽऽचार्यस्याप्यरक्षितस्य दोषा भवन्ति । तथा हि सोऽपि प्रतिरूपवान् : भवति ततः कोऽपि भिक्षपासको जिनप्रवचनप्रभावनामसहिष्णुर्विषं दद्यात्। स्त्री वा काचिद् रूपलुब्धा अभियोग्यं कुर्यात्, वशीकरणादि वा प्रयुञ्जीत । यस्मादेते दोषास्तस्मात् प्रयत्नतो रक्षणीयोऽन्यथा तदभावे गणस्याप्यभावापत्तेः ॥ २५७५ ।।
गाथा २५७०-२५७६ आचार्यस्य रक्षा कार्या
१०९३ (A)
तथा चाह
For Private And Personal Use Only