________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
४
व्यवहार
सूत्रम् द्वितीय उद्देशकः ५३८ (A)
परिहारतपः प्रतिपद्यते। द्वितीयः कल्पस्थितो भवति, स एव चानुपारिहारिक इति तस्य वैयावृत्त्यं करोति ॥१०१३॥
सूत्रम्- दो साहिम्मिया एगतो विहरंति, ते दोवि अण्णयरं अकिच्चट्ठाणं पडिसेवित्ता आलोएज्जा, एगं तत्थ कप्पागं ठवइत्ता एगे निव्विसेज्जा, अह पच्छा से वि निव्विसेज्जा ॥२॥ ___ 'दो साहम्मिया एगओ विहरंति' इत्यादि, द्वौ साधर्मिकौ एकत एकत्र स्थाने विहरतः, तौ च द्वावप्यन्यतरद् अकृत्यस्थानं प्रतिसेव्य आलोचयेयाताम्, तत्र यदि द्वावपि गीतार्थी ततस्तत्र तयोर्द्वयोर्मध्ये एकं कल्पस्थितं स्थापयित्वा एको निर्विशेत् परिहारतपः प्रतिपद्येत। यश्च कल्पस्थितः स एव चानुपारिहारिको भवति, अन्यस्याभावात्, ततः स तस्य वैयावृत्त्यं करोति। अथ परिहारतप:समाप्त्यनन्तरं स कल्पस्थितः पश्चानिर्विशेत् परिहारतपः प्रतिपद्येत, इतरस्तु परिहारतपःकृतकर्मा कल्पस्थितोऽनुपारिहारिकश्च भवति। एष सूत्रार्थः । एनमेव सूत्रार्थं भाष्यकृत् सविशेषमाह
सूत्र २-३-४
गाथा १०१४-१०१६ प्रायश्चित्तस्वरूपम्
५३८ (A)
For Private and Personal Use Only