SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ५३७ (A) स्यैवान्तस्तिष्ठति, एवमेकाकिनौ जातौ। ततो यो भिक्षागतः यो वा भाजनप्रक्षालनार्थं बहिर्विनिर्गतः, यो वा वसताववतिष्ठते सः इन्द्रियार्थैः रूप-रसादिभिरिष्टाऽनिष्टैः समापतितै राग द्वेष वा प्रयाति, राग-द्वेषगमनाच्च प्रायश्चित्तस्थानमापद्यते। तत एवमनन्तरोदितैः कारणैरेकः प्रायश्चित्तस्थानमापन्नो भवति, एकस्तु अनापन्न इति। अथवा यद्यपि नाम भिक्षाग्रहणादिनिमित्तं समकं हिण्डेते तथाप्येक आपद्यते प्रायश्चित्तस्थानम्, अपरो नैव ॥१०१०॥ तथा चाह तुल्ले वि इंदियत्थे, एगो सज्जइ विरजई बितितो। अज्झत्थं तु पमाणं, न इंदियत्था जिणा बेंति ॥ १०११ ॥ तुल्येऽपि समानेऽपि इन्द्रियार्थे इन्द्रियविषये रूपादौ रागहेतावेकः रज्यते रागमुप- | गच्छति, द्वितीयो विरज्यते विषयपरिणामस्य च दारुणतां भावयन् विरक्तो भवति। | तस्मात्प्रायश्चित्तापत्त्यनापत्तिविषये अध्यात्ममान्तरः परिणामः स प्रमाणम्, न इन्द्रियार्था | इति जिना: भगवन्तः सर्वज्ञा ब्रवते। ततः समकहिण्डनेऽप्येको घटते प्रायश्चित्तमापन्नोऽपरो नेति ॥१०११॥ इतश्च विषया न प्रमाणम् यत आह गाथा १००९-१०१३ अध्यात्मस्य प्रामाण्यम् /a/ ५३७ (A) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy