________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् तृतीय उद्देशकः ७९१ (A)|M
अगीतार्थो गौरवेण व्यवहरन् अबोधिफलकर्मबन्धनाच्चतुर्णामङ्गानां समाहारः चतुरङ्गं मानुषत्वं श्रुतिः श्रद्धा संयमे च वीर्यम् इत्येवंरूपम् , कथंभूतम् ? इत्याह-सर्वस्मिन्नपि लोके सारमङ्गं स्वरूपं यस्य तत्सर्वलोकसाराङ्गं नाशयति। नष्टे च तस्मिन् चतुरङ्गे न हु नैव भूयो भवति सुलभं चतुरङ्गम् निबिडकर्मणाऽनर्वाक्पारे संसारे क्षिप्तत्वात् ॥ १७०७ ॥
थिरपरिवाडीएहिं, संविग्गेहिं अणिस्सियकरहिं। कज्जेसु जंपियव्वं, अणुओगियगंधहत्थीहिं ॥ १७०८॥ स्थिराः सूत्रार्थपरिपाट्यो येषां ते स्थिरपरिपाटीकास्तैः संविग्नैः मोक्षाभिलाषिभिः अनिश्रितकरैः राग-द्वेषपरिहारतो यथावस्थितव्यवहारकारिभिः आनुयोगिकगन्धहस्तिभिः अनुयोगधरप्रकाण्डैः कार्येषु जल्पितव्यम्, न शेषैरिति ॥ १७०८ ॥
एतदेव भावयतिएयगुणसंपउत्तो, ववहरई संघमज्झयारम्मि।
एयगुणविप्पमुक्के, आसायण सुमहती होति ॥ १७०९ ॥ १. "माणुसत्तं१ सुई२ सद्धा३ संजमम्मि य वीरियं" उत्तरा. ४।१।।
गाथा
१७०५-१७१०
व्यवहारकरणविधिः
७९१ (A)
For Private and Personal Use Only