________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.
श्री व्यवहारसूत्रम् तृतीय उद्देशकः
X
७८७ (A)|
३। एवं श्रुते यदि शङ्का भवति तर्हि ग्राहकः आचार्यः शोधयति परीक्षते इत्यर्थः । कथम्? इति चेत्, उच्यते- तिसृभिः परिपाटीभिः श्रुतेऽपि व्यवहारादिके ग्रन्थे सूरिणा स विचारणीयःकिं सम्यक् गृहीतं न वा? गृहीतेऽपि पुनः परीक्षणीयः- किं व्यवहारी? अव्यवहारी वा? तत्र यदि व्यवहारी तर्हि योग्यः, अथाव्यवहारी तर्हि अयोग्यः। अथवा ग्राहको नाम शिष्यः, स यदि तिसृभिः परिपाटीभिः शुद्ध्यति भावतो निःशेषसूत्राऽर्थपारगो भवति ततः स व्यवहारी क्रियते॥ १६९२॥ एतदेव व्याख्यानद्वयं विवरिषुराह-.
गाहओ आयरिओ ऊ, पुच्छइ सो जाणि विसमठाणाणि। जइ निव्वहती तहियं, ति तस्स हिययं तु तो सुझे ॥ १६९३ ॥
ग्राहकः आचार्यः, ग्राहयतीति ग्राहक इति व्युत्पत्तेः। स यानि विषमाणि स्थानानि | तानि पृच्छति तत्र यदि निर्वहति। किमुक्तं भवति ? तस्य हृदयं सम्यगभिप्रायं जानाति | ततः शुध्यति व्यवहर्तुं व्यवहारकरणयोग्यः ॥ १६९३॥
द्वितीयं व्याख्यानमाह
गाथा १६८९-१६९५ व्यवहारकारिणः
७८७ (A)
For Private and Personal Use Only