________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
तृतीय उद्देशकः
७८३ (A)
܀܀܀܀܀
܀܀܀܀܀܀܀܀
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तानेवाऽऽह
मा कित्ते कंकडुयं१, कुणिमं२ पक्कु३त्तरं४ च चव्वायं ५ । बहिरं६ च गुंठसमणं७, अंबिलसमणं च निद्धम्मं ॥ १६७८ ॥ दारगाहा ।
मा कीर्त्तय प्रशंसय व्यवहारिणम् कं कम् ? इत्याह- काङ्कटुकं१ कुणपं कुणपनखं२ पक्वम् ३ उत्तरं ४ चार्वाकं ५ बधिरं ६गुण्ठसमानं लाटमायाविसमानम् ७ अम्लसमानं च निर्धर्माणम् ८ ॥१६७८ ।।
तत्र काङ्कटुकं कुणपं च प्रतिपादयति
कंकुडुओ विव मासो, सिद्धिं न उवेइ जस्स ववहारो । दारं १ | कुणिमनहो व न सुज्झइ, दुच्छेज्जो जस्स ववहारो ॥ १६७९ ॥ दारं २ ।
यस्य व्यवहारः काङ्कटुकमाष इव न सिद्धिमुपयाति स काङ्कटुकव्यवहारयोगात् काङ्कटुकः१। यस्य पुनर्व्यवहारो दुश्छेद्यः भवति, न च छिन्नोऽपि सर्वथा निरवशेषः
For Private and Personal Use Only
गाथा
१६७५- १६८१ व्यवहार्यव्यवहारिस्वरूपम्
७८३ (A)