________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम्
तृतीय
उद्देशकः
७६७ (A)
मानमपात्रं यावत्कथितकम् बहुशो मायासेविनो यावज्जीवमाचार्यत्वादीनि न कल्पन्ते इति वक्ष्यमाणात् ॥ १६१७॥
अहवा एगहिगारो, उद्देसो तइयओ उ ववहारे। केरिसतो आयरिओ, ठविजइ केरिसो नेति ? ॥ १६१८ ॥
अथवेति सम्बन्धस्य प्रकारान्तरतोपदर्शने, व्यवहारे तृतीयोद्देशकाधिकारे यथा कीदृश आचार्यः स्थाप्यते? कीदृशो न ? तत्र यादृशः स्थाप्यो यादृशश्च न स्थाप्यः तादृश उक्तः, अयमन्यो न स्थाप्यत इति प्रतिपादनार्थमेष सूत्रसप्तकारम्भः ॥ १६१८॥
अहवा दीवगमेयं, जह पडिसिद्धो अभिक्खमाइल्लो। सागारिसेवि एवं, अभिक्खओहावणकारी य ॥ १६१९॥
अथवेति पूर्ववत् दीपकमेतत् सूत्रसप्तकम्, पूर्वसूत्रेष्वधिकार्थोद्दीपनार्थमिदं सूत्रसप्तक- | मधिकमेवार्थमुपदर्शयति- यथाऽनेन सूत्रसप्तकेन अभीक्ष्णमायी बहुशो मायावी यावज्जीवमाचार्यत्वादिषु पदेषु प्रतिषिद्धस्तथा मैथुनसूत्रपञ्चकमध्ये यो भिक्षुसूत्रे निक्षेपणसूत्रद्वये च
सूत्र २३-२९
गाथा १६१७-१६१९
बहुशो व्रतातिचारे पदाऽयोग्यत्वम् ७६७ (A)
For Private and Personal Use Only